मन्त्रमानसिकस्नानस्तोत्रम्
सङ्कल्पम् ।
ॐ
अलिनीलघनश्यामं नलिनायतलोचनम् ।
स्मरामि पुण्डरीकाक्षं तेन स्नातो भवाम्यहम् ॥
ध्यानम् ।
अनन्तादित्य सङ्काशं वासुदेवं चतुर्भुजम् ।
शङ्खचक्रगदापद्मधारिणं वनमालिनम् ॥
श्यामलं शान्तहृदयं प्रसन्नवदनं शुभम् ।
दिव्यचन्दनलिप्ताङ्गं चारुहासं सुवीक्षणम् ।
वनमालापरिवृतं नारदादिभिरर्चितम् ॥
सुवर्णकङ्कणैर्दीप्तं किङ्किणीभिर्विराजितम् ।
केयूरहारिणं देवं सुवर्णमकुटोज्ज्वलम् ।
अनेकरत्नसञ्छन्न स्फुरन्मकरकुण्डलम् ॥
पादपद्मसुशोभितम् ।
तत्पादपङ्कजाद्गङ्गां प्रवहन्तीं स्वमूर्धनि ।
चिन्तये ब्रह्मरन्ध्रेण प्रविशन्तीं स्वकां तनुम् ॥
तया संक्षालये देहं बाह्यमाभ्यन्तरं मलम् ।
अन्तर्बहिश्च शुद्ध्यन्तं बाह्यमभ्यन्तराणि च ॥
मन्त्रम् ।
ॐ -
नमः शिवायै गङ्गायै शिवदायै नमो नमः ।
नमस्त्रिपथगामिन्यै मन्त्रमूर्त्यै नमो नमः ॥
अच्युतो हमनन्तो हं गोविन्दो हमहं हरिः ।
आनादो हमशेषो हं अजो हममृतो स्म्यहम् ॥
नित्यो हं निर्विकल्पो हं निराकारो हमव्ययः ।
सच्चिदानन्दरूपो हं परिपूर्णो स्म्यहं सदा ॥
परिभाषा -
इडा भागीरथी गङ्गा पिङ्गला यमुना स्मृता ।
तयोर्मध्ये गता नाडी सुषुम्नाऽऽख्या सरस्वती ॥
ध्यानह्रदे ज्ञानजले रागद्वेषमलापहे ।
यो स्नाति मानसे तीर्थे स याति परमां गतिम् ॥
फलश्रुतिः -
इदं मानसिकस्नानं प्रोक्तं हरिहरादिभिः ।
सार्धत्रिकोटि तीर्थेषु स्नानात्कोटिगुणाधिकम् ॥
यो नित्यमाचरेदेवं स वै नारायणः स्मृतः ।
कालमृत्युमतिक्रम्य जीवत्येव न संशयः ॥
इति मन्त्रमानसिकस्नानस्तोत्रं सम्पूर्णम् ।
Encoded and proofread by PSA Easwaran