मनसादेवी द्वादशनामस्तोत्रम्
ॐ नमो मनसायै ।
जरत्कारु जगद्गौरी मनसा सिद्धयोगिनी ।
वैष्णवी नागभगिनी शैवी नागेश्वरी तथा ॥ १॥
जरत्कारुप्रियाऽऽस्तीकमाता विषहरीती च ।
महाज्ञानयुता चैव सा देवी विश्वपूजिता ॥ २॥
द्वादशैतानि नामानि पूजाकाले च यः पठेत् ।
तस्य नागभयं नास्ति तस्य वंशोद्भवस्य च ॥ ३॥
नागभीते च शयने नागग्रस्ते च मन्दिरे ।
नागभीते महादुर्गे नागवेष्टितविग्रहे ॥ ४॥
इदं स्तोत्रं पठित्वा तु मुञ्चते नात्रसंशयः ।
नित्यं पठेद्यः दृष्ट्वा नागवर्गः पलायते ॥ ५॥
नागौधं भूषणं कृत्वा स भवेत् नागवाहनाः ।
नागासनो नागतल्पो महासिद्धो भवेन्नरः ॥ ६॥
॥ इति मनसादेवी द्वादशनामस्तोत्रं सम्पूर्णम् ॥