श्रीमलहानिकरेश्वरस्तुतिः
(श्रीशृङ्गगिरौ - श्रीभवानीमलहानिकरेश्वरकल्याणोत्सवे)
स्वग्रामगमनवाच्छा सर्वेषां प्रकृतिसिद्धा हि ।
काशीयात्रा तस्मात्काशीश तवैव खलु युक्ता ॥ १॥
शीर्षान्मुक्ताहारव्याजात्स्वर्गापगा शम्भोः ।
गङ्गाधर विस्रस्ता नृत्यं किमु कुर्वतस्तवेशान ॥ २॥
शरदिन्दुसोदरमुखं करनिर्जितपङ्कजं कृपाम्भोधिम् ।
त्वां पश्यन्तं मामिह क्षुत्तृष्णे नैव बाधेते ॥ ३॥
सर्वाङ्गसुन्दर विभो करुणामृतपूरपूरितापङ्ग ।
त्वां चक्षुषी ममेमे न त्यजतः किं करोमि वद शम्भो ॥ ४॥
तस्मात्तवेयमनिशं मूर्तिः प्रस्फुरति चित्तकञ्जाते ।
यद्वत्तथा कुरु त्वं करुणां गिरिजाब्जशिशुभानो ॥ ५॥
इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचिता श्रीमलहानिकरेश्वरस्तुतिः सम्पूर्णा ।
Proofread by PSA Easwaran