श्रीमहाविद्या वैष्णवी कवचस्तोत्रम्
श्रीभगवानुवाच-
अस्य मन्त्रस्य कवचं शृणु वेतालभैरव ।
वैष्णवीतन्त्रसंज्ञस्य वैष्णव्याश्च विशेषतः ॥ १॥
तत्र मन्त्राद्यक्षरं तु वासुदेवस्वरूपधृक् ।
वर्णो द्वितीयो ब्रह्मैव तृतीयश्चन्द्रशेखरः ॥ २॥
चतुर्थो गजवक्त्रश्च पञ्चमस्तु दिवाकरः ।
शक्तिः स्वयं पकारश्च महामाया जगन्मयी ॥ ३॥
यकारस्तु महालक्ष्मीः शेषवर्णः सरस्वती ।
योगिनी पूर्ववर्णस्य शैलपुत्री प्रकीर्तिता ॥ ४॥
द्वितीयस्य तु वर्णस्य चण्डिका योगिनी मता ।
चण्डघण्टा तृतीयस्य कूष्माण्डा तत्परस्य च ॥ ५॥
स्कन्दमाता तकारस्य पस्य कात्यायनी स्वयम् ।
कालरात्रिः सप्तमस्य महादेवीति संस्थिता ॥ ६॥
प्रथमं वर्णकवचं योगिनीकवचं तथा ।
देवौघकवचं पश्चाद्देवीदिक्कवचं तथा ॥ ७॥
ततस्तु पार्श्वकवचं द्वितीयान्ताव्ययस्य च ।
कवचं तु ततः पश्चात् षड्वर्णकवचं तथा ॥ ८॥
अभेद्यकवचं चेति सर्वत्राणपरायणम् ।
इमानि कवचान्यष्टौ यो जानाति नरोत्तमः ।
सोऽहमेव महादेवो देवीरूपश्च शक्तिमान् ॥ ९॥
ॐ अस्य श्रीवैष्णवीकवचस्तोत्रमहामन्त्रस्य नारायण ऋषिः ।
अनुष्टुप् छन्दः । श्रीमहाविद्या वैष्णवीकात्यायनी देवता ।
सर्वार्थसाधने जपे विनियोगः ॥
अः पातु पूर्वकाष्ठायामाग्नेय्यां पातु कः सदा ।
पातु चो यमकाष्ठायाण्टो नैरृत्यां च सर्वदा ॥ १०॥
मां पातु तोऽसौ पाश्चात्ये शक्तिर्वायव्यदिग्गता ।
मूर्ध्नि रक्षतु मां सोऽसौ बाहौ मां दक्षिणे तु कः ।
मां वामबाहौ च पातु हृदि तो मां सदावतु ॥ ११॥
तः पातु कण्ठदेशे मां कट्योः शक्तिस्तथावतु ।
यः पातु दक्षिणे पादे शो मां वामपदे तथा ॥ १२॥
शैलपुत्री तु पूर्वस्यांआग्नेय्यां पातु चण्डिका ।
चण्डाघण्टा पातु याम्यां यमभीतिविमर्दिनी ॥ १३॥
नैरृत्ये त्वथ कूष्माण्डा पातु मां जगतां प्रसूः ।
स्कन्दमाता पश्चिमायां मां रक्षतु सदैव हि ॥ १४॥
कात्यायनी मां वायव्ये पातु लोकेश्वरी सदा ।
कालरात्री तु कौबेर्यां सदा रक्षतु मां स्वयम् ॥ १५॥
महागौरी तथेशान्यां सततं पातु पावनी ।
नेत्रयोर्वासुदेवो मां पातु नित्यं सनातनः ॥ १६॥
ब्रह्मा मां पातु वदने पद्मयोनिरयोनिजः ।
नासाभागे रक्षतु मां सर्वदा चन्द्रशेखरः ॥ १७॥
गजवक्त्रः स्तन्ययुग्मे पातु नित्यं हरात्मजः ।
वामदक्षिणपाण्योर्मां नित्यं पातु दिवाकरः ॥ १८॥
महामाया स्वयं नाभौ मां पातु परमेश्वरी ।
महालक्ष्मीः पातु गुह्ये जानुनी तु सरस्वती ॥ १९॥
महामाया पूर्वभागे नित्यं रक्षतु मांशुभा ।
अग्निज्वाला तथाग्नेय्यां पायान्नित्यं वरासनी ॥ २०॥
रुद्राणी पातु मां याम्यां नैरृत्यां चण्डनायिका ।
उग्रचण्डा पश्चिमायां पातु नित्यं महेश्वरी ॥ २१॥
प्रचण्डा पातु वायव्ये कौबेर्यां घोररूपिणी ।
ईश्वरी च तथैशान्यां पातु नित्यं सनातनी ॥ २२॥
ऊर्ध्वे पातु महामाया पात्वधः परमेश्वरी ।
अग्रतः पातु मामुग्रा पृष्ठतो वैष्णवी तथा ॥ २३॥
ब्रह्माणी दक्षिणे पार्श्वे नित्यं रक्षतु शोभना ।
कौमारी पर्वते पातु वाराही सलिले च माम् ॥ २४॥
नारसिंही दंष्ट्रिभये पातु मां विपिनेषु च ।
ऐन्द्री मां पातु चाकाशे तथा सर्वजले स्थले ॥ २५॥
सेतुः सर्वाङ्गुलीः पातु देवादिः पातु कर्णयोः ।
देवान्तश्चिबुके पातु पार्श्वयोः शक्तिपञ्चमः ॥ २६॥
हा पातु मां तथैर्वोर्वोर्माया रक्षतु जङ्घयोः ।
सर्वेन्द्रियाणि मे पातु रोमकूपेषु सर्वदा ॥ २७॥
त्वचि मां वै सदा पातु मांशम्भुः पातु सर्वदा ।
नखदन्तकरोष्ठादौ यो मां पातु सदैव हि ॥ २८॥
देवादिः पातु मां हस्तौ देवान्तः स्तनकक्षयोः ।
एतदादौ तु यः सेतुर्बाह्ये मां पातु देहतः ॥ २९॥
आज्ञाचक्रे सुषुम्नायांषट्चक्रे हृदिसन्धिषु ।
आदिषोडशचक्रे च ललाटाकाश एव च ॥ ३०॥
वैष्णवीतन्त्रमन्त्रश्च मां नित्यं रक्षतात्सदा ।
कर्णनाडीषु सर्वासु पार्श्वकक्षशिखासु च ॥ ३१॥
रुधिरस्नायुमज्जासु मस्तिष्केषु च पर्वसु ।
द्वितीयाष्टाक्षरो मन्त्रः कवचं पातु सर्वतः ॥ ३२॥
रेतो वायौ नाभिरन्ध्रे पृष्ठसन्धिषु सर्वतः ।
षडक्षरस्तृतीयोऽयं मन्त्रो मां पातु सर्वदा ॥ ३३॥
नासारन्ध्रे महामाया कण्ठरन्ध्रे तु वैष्णवी ।
सर्वसन्धिषु मां पातु दुर्गा दुर्गार्तिहारिणी ॥ ३४॥
श्रोत्रयोर्हुं फडित्येवं नित्यं रक्षतु कालिका ।
नेत्रबीजत्रयं नेत्रे सदा तिष्ठतु रक्षितुम् ॥ ३५॥
ॐ ऐं ह्रीं ह्रौं नासिकायां रक्षन्ती चास्तु चण्डिका ।
ॐ ह्रीं ह्रूं मां सदा तारा जिह्वमूले तु तिष्ठतु ॥ ३६॥
हृदि तिष्ठतु मे सेतुर्ज्ञानं रक्षितुमुत्तमम् ।
ॐ क्षौं फट् च महामारी पातु मां सर्वतः सदा ॥ ३७॥
ॐ जूं सः कौशिकी मां प्राणन् रक्षतु रक्षिता ।
ॐ ह्रीं ह्रूं मां भर्गदयिता देहशून्येषु पातु माम् ॥ ३८॥
ॐ मः सदाशैलपुत्री सर्वानोग्रान् प्रमृज्यताम् ।
ॐ ह्रीं सः स्फें क्षः फडस्त्राय सिंहव्याघ्रभयाद्रणात् ॥ ३९॥
शिवदूती पातु नित्यं ह्रीं सर्वास्त्रेषु तिष्ठतु ।
ॐ ह्रां ह्रीं सः चण्डघण्टा कर्णछिद्रेषु पातु माम् ॥ ४०॥
ॐ ह्रीं सः कामेश्वरी कामानभितिष्ठतु रक्षतु ।
ॐ आं हूं फट् उग्रचण्डा रिपून् विघ्नान् विमर्दताम् ॥ ४१॥
ॐ आं लां पातु मां नित्यं वैष्णवी जगदीश्वरी ।
ॐ कं ब्रह्माणी पातु चक्रात् ॐ चं रुद्राणी तु शक्तितः ॥ ४२॥
ॐ टं कौमारी पातु वज्रात् ॐ तं वाराही तु काण्डतः ।
ॐ पं पातु नारसिंही मां क्रव्यादेभ्यस्तथास्त्रतः ॥ ४३॥
शस्त्रास्त्रेभ्यः समस्तेभ्यो यन्त्रेभ्योऽनिष्टमन्त्रतः ।
चण्डिका मां सदा पातु ॐ यं सं देव्यै नमो नमः ॥ ४४॥
विश्वासघातकेभ्यो मामैन्द्री रक्षतु मन्मनः ।
ॐ नमो महामायायै ॐ वैष्णव्यै नमो नमः ।
रक्ष मां सर्वभूतेभ्यः सर्वत्र परमेश्वरी ॥ ४५॥
आधारे वायुमार्गे हृदि कमलदले चन्द्रवत्स्मेरसूर्ये
हस्तौ वह्नौ समिद्धे विशतु वरदयामन्त्रमष्टाक्षरं तत् ।
यद्ब्रह्मा मूर्ध्नि धत्ते हरिरवति गले चन्द्रचूडो हृदिस्थं
तन्मां पातु प्रधानं निखिलमतिशयम्प्रद्मगर्भाभबीजम् ॥ ४६॥
आद्याः शेषाः स्वरौघैर्नमयबलवरैरस्वरेणापि युक्तैः
सानुस्वारा विसर्गैर्हरिहरविदितं यत्सहस्रं च साष्टम् ।
मन्त्राणां सेतुबन्धं निवसति सततं वैष्णवीतन्त्रमन्त्रे
तन्मां पायात्पवित्रं परमवरमजम्भूतलव्योमभागे ॥ ४७॥
अङ्गान्यष्टौ तथाष्टौ वसव इह तथैवाष्टमूर्तिर्दलानि
प्रोक्तान्यष्टौ तथाष्टौ मधुमतिरचिताः सिद्धयोऽष्टौ तथैव ।
अष्टावष्टाष्टसङ्ख्या जगति रतिकलाः क्षिप्रकाष्टाङ्गयोगा
मय्यष्टावक्षराणि क्षरतु सहिगणो यद्धृदोयस्त्वमूषाम् ॥ ४८॥
फलश्रुतिः -
इति तत्कवचं प्रोक्तं धर्मकामार्थसाधकम् ।
इदं रहस्यं परममिदं सर्वार्थसाधकम् ॥ ४९॥
यः सकृच्छृणुयादेतत्कवचं यन्मयोदितम् ।
स सर्वान् लभते कामान् परत्र शिवरूपताम् ॥ ५०॥
सकृद्यस्तु पठेदेतत् कवचं यन्मयोदितम् ।
स सर्वयज्ञस्य फलं लभते नात्र संशयः ॥ ५१॥
सङ्ग्रामेषु जयेच्छत्रून् मतङ्गानिव केसरी ।
दहेत्तृणं यथा वह्निस्तथाशत्रून् दहेत्सदा ॥ ५२॥
नास्त्राणि तस्य शस्त्राणि शरीरे प्रविशन्ति वै ।
न तस्य जायते व्याधिर्न च दुःखं कदाचन ॥ ५३॥
गुटिकाञ्जनपातालपादलेपरसाञ्जनम् ।
उच्चाटनाद्यास्ताः सर्वाः प्रसीदन्ति च सिद्धयः ॥ ५४॥
वायोरिव गतिस्तस्य भवेदन्यैरवारिता ।
दीर्घायुः कामभोगी च धनवानभिजायते ॥ ५५॥
अष्टम्यां संयुतो भूत्वा नवम्यां विधिवच्छिवाम् ।
पूजयित्वा विधानेन विचिन्त्य मनसाशिवाम् ॥ ५६॥
यो न्यसेत् कवचं देहे तस्य पुण्यफलंशृणु ।
जितव्याधिः शतायुश्च रूपवान् गुणवान् सदा ॥ ५७॥
धनरत्नौघसम्पूर्णो विद्यावान् स च जायते ।
नाग्निर्दहति तत्कायं नापः सङ्क्लेदयन्ति च ॥ ५८॥
न शोषयति तं वायुः क्रव्यात्तन्न हिनस्ति च ।
शस्त्राणि नैनं छिन्दन्ति न तापयति भास्करः ॥ ५९॥
न तस्य जायते विघ्नो नास्ति तस्य च सञ्ज्वरः ।
वेतालाश्च पिशाचाश्च राक्षसा गणनायकाः ॥ ६०॥
सर्वे तस्य वशं यान्ति भूतग्रामाश्चतुर्विधाः ।
नित्यं पठति यो भक्त्या कवचं हरनिर्मितम् ॥ ६१॥
सोऽहमेव महादेवो महामाया च मातृका ।
धर्मार्थकाममोक्षाश्च तस्य नित्यं करे स्थिताः ॥ ६२॥
अन्यस्य वरदः सो वै नित्यं भवति पण्डितः ।
कवित्वं सत्यवादित्वं सततं तस्य जायते ॥ ६३॥
वदेत् श्लोकसहस्राणि भवेत् श्रुतिधरस्तथा ।
लिखितं यस्य गेहे तु कवचं भैरवस्थितम् ॥ ६४॥
न तस्य दुर्गतिः क्वापि जायते तस्य दूषणम् ।
ग्रहाश्च सर्वे तुष्यन्ति वशं गच्छन्ति भूमिपाः ॥ ६५॥
यद्राज्ये कवचज्ञोऽस्ति जायन्ते तत्र नेतयः ।
सेतुर्देवः शक्तिबीजं पञ्चमो हायने नमः ॥ ६६॥
वायुर्बलेन चैतायै द्वितीयाष्टाक्षरं त्विदम् ।
सेतुर्देवोऽथ वैष्णव्यै षडक्षरमिदं स्मृतम् ॥ ६७॥
एतद्द्वयं तु जिह्वाग्रे सततं यस्य वर्तते ।
तस्य देवी महामाया काये तिष्ठति वै सदा ॥ ६८॥
मन्त्राणां प्रणवः सेतुः तत्सेतुः प्रणवः स्मृतः ।
क्षरत्यनोङ्कृतं पूर्वं परस्ताच्च विशीर्यते ॥ ६९॥
नमस्कारो महामन्त्रो देव इत्युच्यते सुरैः ।
द्विजातीनामयं मन्त्रः शूद्राणां सर्वकर्मणि ॥ ७०॥
अकारं चाप्युकारं च मकारं च प्रजापतिः ।
वेदत्रयात्समुद्धृत्य प्रणवं निर्ममे पुरा ॥ ७१॥
स उदात्तो द्विजातीनां राज्ञां स्यादनुदात्तकः ।
प्रचितश्चोरुजातानां मनसापि तथा स्मरेत् ॥ ७२॥
चतुर्दशस्वरो योऽसौ शेष औकारसंज्ञकः ।
स चानुस्वारचन्द्राभ्यांशूद्राणां सेतुरुच्यते ॥ ७३॥
निःसेतु च यथा तोयं क्षणान्निम्नं प्रसर्पति ।
मन्त्रस्तथैव निःसेतुः क्षणात् क्षरति यज्ज्वनाम् ॥ ७४॥
तस्मात्सर्वत्र मन्त्रेषु चतुर्वर्णा द्विजातयः ।
पार्श्वयोः सेतुमादाय जपकर्म समाचरेत् ॥ ७५॥
शूद्राणामादिसेतुर्वा द्विः सेतुर्वा यथेच्छतः ।
द्विः सेतवः समाख्याताः सर्वदैव द्विजातयः ॥ ७६॥
और्व उवाचएतत्ते सर्वमाख्यातं कवचं त्र्यम्बकोदितम् ।
अभेद्यं कवचं तत्तु कवचाष्टकमुत्तमम् ॥ ७७॥
महामायामन्त्रकल्पं कवचं मन्त्रसंयुतम् ।
षडक्षरसमायुक्तं त्रिषु लोकेषु दुर्लभम् ॥ ७८॥
एत्तत्वं नृपशार्दूल नित्यं भक्तियुतः पठन् ।
जपन् मन्त्रं च वैष्णव्याः सर्वसिद्धिमवाप्स्यसि ॥ ७९॥
इति श्रीमहाविद्या वैष्णवी कवचस्तोत्रं सम्पूर्णम् ।