महाराज्ञीस्तोत्रम्
ॐ या द्वादशार्कपरिमण्डितमूर्तिरेकां
सिंहासनस्थितिमतीमुरगैर्वृतां च ।
देवीमनक्षगतिमीश्वरतां प्रपन्नां तां
नौमि भर्गवपुषीं परमार्थराज्ञीम् ॥ १॥
यत्पादपङ्कजतलेऽमरमूर्धमौलि-
न्यस्तेन्द्रनीलमणिसन्ततयः पतन्ति ।
किञ्जल्कपानरतमुग्धमधुव्रतत्वं
राज्ञी सदा भगवती जननीव नोऽव्यात् ॥ २॥
द्वारं यदीयचरणाम्बुजयुग्मनिर्यद्-
रेणुस्मृतिर्विवृतमस्ति महोदयानाम् ।
अम्बाधिकप्रणयपूरितचित्तवृत्ती
राज्ञी शुभं वितनुयान्मम सेवकस्य ॥ ३॥
दम्भं विहाय भवदङ्घ्रिनतिं तनोति यो
राज्ञि ! देवि न विमुञ्चति मुक्तकान्ताम् ।
तं रूपहीनमपि कामभिवाधिगम्य
तां त्वां नतोस्म्यऽशरणो भवभारखिन्नः ॥ ४॥
शान्तिं निनाय दशकन्धरमुग्ररूपं
यत्पादसद्दशनखाग्रलुठत्किरीटः ।
रामो दशेन्द्रियनिवृत्तिविधानदक्षो
राज्ञीं नतोस्म्यऽशरणो जगदम्बिकां ताम् ॥ ५॥
अर्कप्रभा प्रबलमोहतमःप्रशान्तौ
चन्द्रद्युतिर्भवभयद्विपदन्तभङ्गे ।
याऽग्नेः शिखा दुरितदारुणदारुदाहे
राज्ञीमनन्यशरणः प्रणमाम्यहं ताम् ॥ ६॥
कस्यापि राज्ञि बहुभाग्यनिधेः स्वरूपं
भावत्कमस्ति हृदि संश्रितसन्निधानम् ।
दुष्टद्विषधृदयपाटनकृत्यहेतुं
तां त्वां नतोऽस्मि नतलोकसुखप्रदात्रीम् ॥ ७॥
पत्तिर्द्युलोकपतिवैभवमाददाति
देवाधिपोऽपि ननु पत्त्यनुकारमेति ।
यत्प्रोल्लसन्नयनयोगवियोगभावाद्-
राज्ञींमहोपपदरम्यतरां नमामि ॥ ८॥
रिक्तत्वमाप्य च धनेन यदीयभक्ति-
चिन्तामणिं विनिदधाति हृदब्जकोशे ।
नानाविधाभिमतसिद्धिकरं मनुष्यो
राज्ञीं नमामि भववारिधितारिणीं ताम् ॥ ९॥
मर्त्याः शचीसहचरीकुचकुड्मलाग्र-
स्पर्शोचितं करसरोजमवाप्नुवन्ति ।
यत्पादयोः सकृदुपाहितपुष्पपूजास्तां
शर्मदामनुदिनं प्रणमामि राज्ञीम् ॥ १०॥
डिम्बोऽपि पूर्वसुकृतामृतसिक्तचित्तो
ध्यानस्थयच्चरणभक्तिसुकल्पवीरुत् ।
अभ्येत्यभीष्टफलसङ्ग्रहभाजनत्वं
राज्ञी तनोतु शुभतन्तुमहर्निंशं सा ॥ ११॥
तापः प्रयाति विलयं नरकाभिषङ्ग-
जातो यदर्चनसुधारससारसेकात् ।
जन्तोरबोधकृतदुष्कृतभग्नमूर्ते
राज्ञी रिपून्दलयतान्मम सन्ततं सा ॥ १२॥
मूलच्छिदाकरणकारणमङ्घ्रिपद्म-
युग्मस्मृतेर्भगवति प्रभवोऽनुभावः ।
संसारपादपततेस्तव देवि यस्या
भूयान्मदीयहृदयाहितसन्निधिः सा ॥ १३॥
तीव्रः प्रताप इह दुःसहतां प्रयाति
यन्मूर्तिचिन्तननुतिप्रभवात्प्रभावात् ।
धन्यस्य कस्यचिदपि क्षितिपालमौले
राज्ञीं दयारसनिधिं प्रणमाम्यहं ताम् ॥ १४॥
रेणुर्यदङ्घ्रिकमलप्रभवः प्रयाति
प्रेतेशभृत्यनयनान्ध्यनिमित्तभावम् ।
चित्रं स्वभक्तनयने भजतेऽञ्जनत्वं
राज्ञीं समस्तरिपुनिर्दलनाय वन्दे ॥ १५॥
मेघत्वमीहितपयोधरवृष्टिदाने
यन्मूर्तिरेति चरणौ स्मरतां स्मृतैव ।
अस्माकवैरिनिवहं नयताद्विनाशं
राज्ञी त्रिलोकजननी खलु निर्विलम्बम् ॥ १६॥
कामी यदीयनयनाञ्चलपूतदेहो
मन्त्रं विनौषधमृते मणिमन्तरेण ।
क्षिप्रं हि संवननमेणदृशां करोति
राज्ञी ममान्तरनुरञ्जतु वाञ्छितेन ॥ १७॥
सिन्धोरवाप्य तटमर्चननाम यस्या
गीर्वाणदुर्लभसुधारससारमय्याः ।
योगी प्रयाति परिलङ्घ्य भवाब्धिपारं
राज्ञी सदा शुभततिं प्रददातु मह्यम् ॥ १८॥
हालाहलं स्म गिरिशो विदधाति हीनशक्तिं
स्वकण्ठगतमङ्घ्रिनतः सुरेन्द्रः ।
यद्दर्शनामृतभरप्रभवात्प्रसादाद्-
राज्ञी वितारयतु संसृतिसागरान्माम् ॥ १९॥
सर्पाधिपो भवति यद्गुणकीर्तनेषु
शक्तो न वाग्दशशतद्वयसंयुतोऽपि ।
स्वात्मीयभक्तजनवाञ्छितदानदक्षा
सा सर्वशत्रुदलनं विदधातु राज्ञी ॥ २०॥
नश्यत्यनन्यशरणस्य नरस्य यस्या
ध्यानप्रभापरिवृढोदयसङ्गमेन ।
नीहारराशिरभितो वृजिनाभिधानः
सा मङ्गलं त्रिजगतां विदधातु राज्ञी ॥ २१॥
स्थित्या स्थितिं कमलजा यदनुग्रहस्य
वाग्देवता च विदधाति गृहे मुखे च ।
मर्त्यस्य तीव्रतरभक्तिसमन्वितस्य
राज्ञी ददातु शुभसन्ततिमाशु मह्यम् ॥ २२॥
तिर्यग्गणादऽहमवैमि विचारशून्यं
तं मानवं यदभिवन्दनसौख्यलेशम् ।
स्वप्नेपि न स्पृशति जातु यदीयचित्तं
राज्ञी स्वभक्तजनमङ्गलदाऽस्तु नित्यम् ॥ २३॥
मन्त्रं यदीयमभिवाञ्छितदं पठित्वा
मर्त्यः प्रभावसहितः स्पृहणीयतायाः ।
पात्रीभवत्यमरवारविलासिनीनां
दुर्वारपापदलनं विदधातु राज्ञी ॥ २४॥
तीक्ष्णद्युतिः शतसहस्रतनुत्वमेत्य
यत्तेजसा तुलयितुं कणमप्यऽशक्तः ।
राज्ञी तथाविधसविस्मयदुर्निरीक्ष्य-
तेजोन्विता जयतु मङ्गलकारिणी सा ॥ २५॥
मुक्ता भवन्त्यऽचलपूर्वस्वकर्ममेघ-
मुक्ताः प्रलभ्य यदुपासनभक्तिशुक्तेः ।
मध्यं कदाचिदऽणवो बहुलोद्भवान्ते
कुर्याच्छुभं निरुपमं स्वजनस्य राज्ञी ॥ २॥
रश्मिः सहस्रकिरणस्य करालपङ्क-
संशोषणे हिमकरस्य रुचिर्विकासे ।
काव्योत्पलस्य ननु यच्चरणाब्जसेवा
राज्ञीं विपक्षदमनीं प्रणमाम्यहं ताम् ॥ २७॥
गायन्ति सर्वधरणीधरकन्दरासु
नित्यं सुपर्वहरिणीनयनासमूहाः ।
क्षेमाय यच्चरणमद्भुतमन्तहीनं
राज्ञीं स्मरामि मनसा दुरितापहत्यै ॥ २८॥
वृक्षा यदर्चनविधावुपयोगमीयुः
पुष्पैः सुगन्धहृतभृङ्गकदम्बकैर्ये ।
नाकेऽद्य कल्पतरवश्च त एव सन्ति
राज्ञी वपुर्मम निषिञ्चतु भाग्यवर्षैः ॥ २९॥
ता निष्पतन्ति नरि तत्र खलेकपोत-
न्यायेन भाग्यभरभागिनि सिद्धयोऽष्टौ ।
यः सर्वदा भजति राज्ञि तवाङ्घ्रियुग्मं
सा त्वं ममार्द्रकरुणा भव सुप्रसन्ना ॥ ३०॥
चामीकरप्रकरमर्थिगणाय यस्याः
प्रोद्दिश्य नाम मनुजो हि ददाति भक्तः ।
यः स प्रयाति कनकाद्रिगृहाधिपत्यं
राज्ञी भवत्वखिललोकहिता सदैव ॥ ३१॥
देवालयादपि परं पदमामनन्ति
काश्मीरदेशममलेक्षणयुग्मयुक्ताः ।
मूर्त्यन्तरान्वितयदीयपदारविन्द-
द्वन्द्वार्पणाद्भवतु सा विभवाय राज्ञी ॥ ३२॥
वीतान्यवस्तुनिवहस्पृहया कृता या-
त्पादाब्जयोर्जनतया भजतां प्रणामाः ।
नाशाय भावि(१)जननप्रकरस्य
राज्ञी कल्याणमन्तरहितं प्रददातु मह्यम् ॥ ३३॥
मन्यूत्कटभ्रुकुटिवक्त्रमवेक्ष्य यस्याः
कालोऽङ्घ्रिनम्रशिरसां सहति स्वरूपम् ।
द्रष्टुं न दुःसहगिरीशविलोचनाग्न-
इशङ्कायुतो भवतु मे शुभदास्तु राज्ञी ॥ ३४॥
Footnote १ भवन्तीति शेषः
नर्नतिं रम्यकररङ्गतले नटो या-
त्पादाब्जनम्रशिरसः सुभटस्य खड्गः ।
सङ्ग्रामनिर्दलितशत्रुजयार्जितश्री
राज्ञी करोतु मदधीनमशेषशर्म ॥ ३५॥
क्षत्रव्रजोऽतिबलदक्षिणबाहुकोश-
अकृष्टासिमन्दरविलोडितसङ्गराब्धिः ।
लक्ष्मीं परां भजति यच्चरणप्रसादा-
ल्लक्ष्मीं जनाय भजते प्रददातु राज्ञी ॥ ३६॥
गङ्गादितीर्थजलपूतशरीरयष्टिर्यः
पूर्वजन्मनि यमान्नियमांश्च सेवे ।
भावत्कभक्तिविषयं भजते स एव
दूरीकृताखिलभयां प्रणमामि राज्ञीम् ॥ ३७॥
तिग्मांशुमग्निमनिलं क्षितिमम्बु चन्द्र-
मात्मानमभ्रमपि यत्तनुमामनन्ति ।
राज्ञीं समस्तदुरितापहृतिप्रगल्भां
भर्गाब्धिनिर्झरनदीं सततं स्मरामि ॥ ३८॥
मीनध्वजो ननु बभूव यदीयदृष्टि-
पीयूषवृष्टिमधिगम्य विलब्धजीवः ।
भूतेशभालनयनानलदग्धदेहो
राज्ञीं प्रसादसुमुखीं प्रणमाम्यहं ताम् ॥ ३९॥
श्वभ्रं परापतति दुष्कृतसारणी यद्-
ध्यानाचलेन्द्रपरिणद्धपुरः प्रयाणा ।
राज्ञीं भजे रविजकिङ्करभीतिभङ्ग-
दानोद्यतां हृदयसन्निहितानुकम्पाम् ॥ ४०॥
रज्जुर्विमार्गगतभक्तकरावलम्बे
यत्पादपङ्कजनतिर्जगति प्रसिद्धा ।
राज्ञीमपारतरदुष्कृतकक्ष्यभार-
दाहे दवानलशिखां प्रणमामि नित्यम् ॥ ४१॥
तां हेलयैव गतिमेति यदङ्घ्रिनम्रः
पत्युः पतेन्मखलिहामपि नेत्रमार्गम् ।
स्वप्ने न या कठिनपापतमोविनाश-
नित्योदितार्यमरुचिं प्रणमामि राज्ञीम् ॥ ४२॥
प्राणो न कर्कशकृतान्तधृतावलेप-
पाशोरगेन्द्रकवलत्वमुपैति जन्तोः ।
यद्भक्तितार्क्षतनुसंश्रितमानसस्य
राज्ञी मुदं वितनुयात्स्वजनस्य तूर्णम् ॥ ४३॥
पङ्गुर्गृहाङ्गणगतः पवनोऽन्तराय-
नामा यदङ्घ्रियुगनम्रतनोर्नरस्य ।
कीनाशलोकदलनोद्यमदक्षशक्तिं
राज्ञीमनन्तकरुणाब्धिमुपास्महे ताम् ॥ ४४॥
नानाकृतिर्विलयमेति भवाभिधानो
यक्षो यदङ्घ्रिनतिभास्करभानुयोगात् ।
मर्त्यस्य श्रद्धमनसः सततं स्मरामि
तस्याऽहं पदसरोजरजांसि राज्ञ्याः ॥ ४५॥
ताराधिपद्युतिरनारतशोककोक-
संयोगनाशनविधौ स्मृतिरस्ति यस्याः ।
पापक्षयाय निज मूर्ध्नि करोम्यहं
तद्राज्ञीपदाम्बुजयुगोत्थितरेणुपुञ्जम् ॥ ४६॥
नौर्दीर्घदुर्गतिसरस्तरणोन्मुखानां
यत्पादपङ्कजयुगप्रणतिर्नराणाम् ।
कश्मीरपण्डितमनोरचितप्रतिष्ठां
वाग्देवतातनुमुपैम्यहमाशु राज्ञीम् ॥ ४७॥
मिथ्या व्ययं परितनोति धनस्य मूढो
यज्ञक्रियावितरणच्छलयुक्तचेताः ।
सत्यां यदङ्घ्रिविनतौ शुभकामदायां
राज्ञीपदाब्जयुगलं शरणं श्रयामि ॥ ४८॥
भागीरथीसलिलसन्ततिरुग्ररूपां
तापप्रभूतिमपि यां ग्रसितुं न शक्ता ।
तां हेलया ग्लपयति स्मृतिरेव यस्या
राज्ञी महादुरितभारमऽपाकरोतु ॥ ४९॥
गण्डस्थलानि सुदृशां त्रिदिवालयानां
वश्यान्यवश्यमचिरेण करोति यस्याः ।
पादस्मृतिर्हि निजभक्तनखक्षतानां
मथ्नात्वऽमन्ददुरितानि ममाशु राज्ञी ॥ ५०॥
वन्दारुलोकनिलयेषु करोति पद्मा-
वाहद्विपो हि वसतिं स्थिरतां गृहीत्वा ।
यत्पादपङ्कजयुगोत्थितरेणुपुञ्ज-
योगाद्धितं त्रिजगतां प्रतनोतु राज्ञी ॥ ५१॥
पुष्णाति वैभवमपाकुरुते विपत्तिं
दुःखानि हन्ति वृजिनं हरति स्मृता या ।
पादाम्बुजन्मयुगलाग्रत एव राज्ञ्या
आधारहीनतरदण्डनिभं पतामि ॥ ५२॥
षड्भिर्मुखैर्गजमुखास्यकृतानुचर्यैः
स्तौतीक्ष्यते च नयनप्रकरैः कुमारः ।
यां द्वादशार्कवपुषीं धृतसप्तलोक-
रक्षां निवारयतु भक्तभयानि राज्ञी ॥ ५३॥
पथ्यं भिषग्भिरनधीतचरं समस्तै-
र्दूरं महौषधिगणाच्च यदङ्घ्रिसेवा ।
दुर्वाररोगगुरुभारजुषां जनानां
राज्ञी विनाशयतु भक्तजनामयं सा ॥ ५४॥
रम्भामुखं भवति नैव सुखाय जन्तो-
र्यद्भक्तिनाकवनिताबहुभोगभाजः ।
सुदुष्टपूर्वजननान्तरसञ्चितानि
राज्ञी विचूर्णयतु मे दुरितानि नित्यम् ॥ ५५॥
मान्यं पदं समुपयाति स वन्दिवक्त्र-
सत्स्थावरावनिसमर्पितकीर्तिबीजः ।
यो नित्यमर्चति तवाङ्घ्रिमनन्यकर्मा
हेराज्ञि मातरऽशुभात्परिपाहि सा माम् ॥ ५६॥
अर्थान्प्रकाशयति दीपशिखेव दीप्रा
या ध्यायिनां दहति पापपतङ्गपङ्क्तिम् ।
ध्यानाभिधं किरति कज्जलजालमक्ष्णो-
रंहो हिनस्तु मम सा प्रणतस्य राज्ञी ॥ ५७॥
राज्ञां शिरो लुठति पादतलाऽऽनुतानां
विश्वम्भरेशशिरसां विलसत्किरीटम् ।
पादे यदीयचरणस्मरणायुषस्तां
राज्ञी भयापहृतये प्रणमामि नित्यम् ॥ ५८॥
नो यस्मिन्पठिते मनोऽर्हति नृणामातङ्कशङ्काङ्कनं
गुप्ताद्गुप्ततरामिहाशयदिशं नो दोषराशिः स्पृशेत् ।
युक्तिः सिन्धुसुतावशीकृतिविधौ हेतुर्वचोदेवताप्राप्तौ
पण्डितकृष्णकेन स महाराज्ञ्याः स्तवो निर्मितः ॥ ५९॥
इति श्रीपण्डितकृष्णकविरचितः श्रीमहाराज्ञीस्तवः सम्पूर्णः ।
Proofread by Aruna Narayanan narayanan.aruna at gmail.com