महामारीस्तोत्रम्
श्रीगणेशाय नमः ॥
देव्युवाच ।
पुरा ब्रह्मा तु मां सृष्ट्वा समाहूयाब्रवीद्वचः ।
शृणु मे वचनं पुत्रि कुरुष्वाद्याथ सादरम् ॥ १॥
कलौ जना दुराचारा राजानश्च तथाविधाः ।
अतो गत्वा भुवं देवि मृत्युरूपा भवाशु च ॥ २॥
परद्रव्यापहर्तारः परस्त्रीनिरताः सदा ।
देवस्वहरणे सक्ता ब्रह्मस्वहरणे नृप ॥ ३॥
तेषां दोषवशात्त्वं तु जनान् संहर नित्यशः ।
ब्रह्मणैवं समादिष्टा इन्द्राद्यैः सुरसत्तमैः ॥ ४॥
भुवं समागता तत्र जनाञ्ज्ञात्वाथ पापिनः ।
राज्ञो दोषान्पुरस्कृत्य ग्रामे ग्रामे वसाम्यहम् ।
तत्रापि पापिनो हत्वा पुनर्ग्रामान्तरं भजे ॥ ५॥
एवं देशानटित्वाऽहं सर्वान्संहृत्य वै जनान् ।
पुनर्गच्छामि सदनं ब्रह्मणः परमेष्ठिनः ॥ ६॥
एवं मदागमं ज्ञात्वा बुद्धिमान्पुण्यकृन्नरः ।
विचार्य शास्त्रतो नित्यं जागरूको भवेदलम् ॥ ७॥
पतन्ति मूषिका यत्र नृत्यन्ति विरमन्ति च ।
तद्गृहं तत्क्षणं त्यक्त्वा सकुटुम्बो वने विशेत् ॥ ८॥
तत्र शान्तिं प्रकुर्वीत महादेव्याः समीरिताम् ।
जपित्वा च महामन्त्रं पठित्वा स्तोत्रमुत्तमम् ॥ ९॥
``ॐ नमो भगवति महामारिके मृत्युरूपिणि सकुटुम्बं मामव स्वाहा ।''
वने जलाशयं गत्वा ऊर्ध्वबाहुरधोमुखः ।
वीरासने चोपविश्य जपेन्मन्त्रं सहस्रशः ॥ १०॥
संस्थाप्य प्रतिमां तत्र धूपदीपोपहारकैः ।
सम्पूज्य विधिवत्पश्चाज्जुहुयात्प्रत्यहं नरः ॥ ११॥
हरिद्राचूर्णमिश्रेण चित्रान्नेनैव संयुतः ।
समिद्भिः खदिरैर्भक्त्या ब्राह्मणैश्च समन्वितः ॥ १२॥
पत्नीपुत्रात्मभृत्यैश्च जुहुयादनुवासरम् ।
होमान्ते च पठेन्नित्यं स्तोत्रमेतज्जितेन्द्रियः ॥ १३॥
नमो देवि महादेवि सर्वशोकवशङ्करी ।
सर्वदा सर्वतो मह्यं कृपां कुरु कृपामयि ॥ १४॥
मेरौ कैलासशिखरे हेमाद्रौ गन्धमादने ।
नित्यप्रियकृतावासे मद्यमांसबलिप्रिये ॥ १५॥
महासैन्यसमायुक्ते सर्वप्राणविहिंसके ।
सर्वाभिचारिके देवि सर्वं त्वं रक्ष सर्वदा ॥ १६॥
यत्र कुत्र स्थले वापि यस्मिन् कस्मिन् यदा तदा ।
रक्ष मां रक्ष मां देवि सपुत्रपशुभृत्यकम् ॥ १७॥
माङ्गल्यं मङ्गलं देहि महामङ्गलदायिनि ।
लोकानामभये सर्वमङ्गले मङ्गलप्रिये ॥ १८॥
इति स्तुत्वा महादेवीं भक्तिभावेन संयुतः ।
भुञ्जीत स्वजनैर्युक्तो देवीं तां मनसा स्मरन् ॥ १९॥
यदा स्वगृहचैत्येषु ध्वाङ्क्षरावो भविष्यति ।
काकशान्तिं ततः कृत्वा गृहं गन्तुमुपक्रमेत् ॥ २०॥
सुमुहूर्ते सुनक्षत्रे स्वलङ्कृत्य ततो गृहम् ।
ब्राह्मणैर्बन्धुभिः सार्धं संविशेद्गृहमात्मनः ॥ २१॥
स्वस्तिवाचनविप्रेभ्यः शान्तिसूक्तोक्तिपूर्वकम् ।
दक्षिणां च हिरण्यादिं दद्याच्छाट्यविवर्जितः ॥ २२॥
ब्राह्मणान्भोजयित्वा च देवीं तां प्रार्थयेद्गृहे ।
गच्छ गच्छ महादेवि स्वस्थानं मङ्गलं कुरु ॥ २३॥
एवं कृत्यविधानेन मारिकाशान्तिरुत्तमा ।
जायते नात्र सन्देहः सत्यं सत्यं समीरितम् ॥ २४॥
इत्येतत्कथितं देव्या देवेभ्यः स्वात्मसम्भवम् ।
माहात्म्यं पठितं येन सोऽपि माङ्गल्यमाप्नुयात् ॥ २५॥
लिखितं पुस्तकं यस्य गृहे तिष्ठति सर्वदा ।
तस्य मारीभयं नास्ति सत्यं सत्यं मयोदितम् ॥ २६॥
पुस्तकं पूजयेद्यस्तु श्रद्धया परया सदा ।
सोऽपि माङ्गल्यमाप्नोति इहामुत्र परां गतिम् ॥ २७॥
सर्वं त्यक्त्वा साधयेत देवीं यत्नैर्धनैरपि ।
स्तोष्यन्ति परया भक्त्या सर्वकामार्थसिद्धये ॥ २८॥
बिडाला यत्र नश्यन्ति यत्र नश्यन्ति मूषिकाः ।
स्थानं तच्च परित्यज्य स्थानं शून्यं च कारयेत् ॥ २९॥
इति श्रीदेवीपुराणे श्रीमहामारिकास्तोत्रं सम्पूर्णम् ॥
Proofread by PSA Easwaran psaeaswaran at gmail.com