श्रीमहालक्ष्मीस्तवः
मयि कुरु मङ्गलमम्बुजवासिनि मङ्गलदायिनि मञ्जुगते
मतिमलहारिणि मञ्जुळभाषिणि मन्मथतातविनोदरते ।
मुनिजनपालिनि मौक्तिकमालिनि सद्गुणवर्षिणि साधुनुते
जय जय हे मधुसूदनमोहिनि मोदविधायिनि वेदनुते ॥ १॥
कलिमलहारिणि कामितदायिनि कान्तविधायिनि कान्तहिते
कमलदलोपम कम्रपदद्वय शिञ्जितनूपुर नादयुते ।
कमलसुमालिनि काञ्चनहारिणि लोकसुखैषिणि कामिनुते
जय जय हे मधुसूदनमोहिनि मोदविधायिनि वेदनुते ॥ २॥
कुवलयमोचकनेत्रकृपापरिपालित संश्रितभक्तकुले
गुरुवर शङ्करसन्नुतितुष्टिसुवृष्टसुहेममयामलके ।
रविकुलवारिधिचन्द्रसमादरमन्त्रगृहीतसुपाणितले
जय जय हे मधुसूदनमोहिनि मोदविधायिनि वेदनुते ॥ ३॥
कुलललनाकुललाळितलोलविलोचनपूर्णकृपाकमले
चलदळकावलिवारिदमध्यगचन्द्रसुनिर्मलफालतले ।
मणिमयभासुरकर्णविभूषणकान्तिपरिष्कृतगण्डतले
जय जय हे मधुसूदनमोहिनि मोदविधायिनि वेदनुते ॥ ४॥
सुरगणदानवमण्डललोहितसागरसम्भवदिव्यतनो
सकलसुरासुरदेवमुनीनतिहाय च दोषदृशाहि रमे ।
गुणगणवारिधिनाथमहोरसिदत्तसुमावलिजातमुदे
जय जय हे मधुसूदनमोहिनि मोदविधायिनि वेदनुते ॥ ५॥
कनकघटोपमकुङ्कुमशोभित हारसुरञ्जित दिव्यकुचे
कमलजपूजित कुङ्कुमपङ्गिल कान्तपदद्वयतामरसे ।
करधृतकञ्जसुमे कटिवीतदूकुलमनोहरकान्तिवृते
जय जय हे मधुसूदनमोहिनि मोदविधायिनि वेदनुते ॥ ६॥
सुरपतिपूजनदत्तमनोहरचन्दनकुङ्कुमसंवलिते
सुरयुवतीकृतवादननर्तनवीजनवन्दनसम्मुदिते ।
निजरमणारुणपादसरोरुहमर्दनकल्पनतोषयुते
जय जय हे मधुसूदनमोहिनि मोदविधायिनि वेदनुते ॥ ७॥
दिनमणिसन्निभदीपसुदीपित रत्नसमावृतदिव्यगृहे
सुतधनधान्यमुखाभिधलक्ष्म्यभिसंवृतकान्तगृहीतकरे ।
निजवनपूजन दिव्यसुमार्चन वन्दनकल्पितभर्तृमुदे
जय जय हे मधुसूदनमोहिनि मोदविधायिनि वेदनुते ॥ ८॥
मम हृदिवास पराभवतापमपाकुरु देहि मुदं हि रमे
मयि करुणां कुरु सादरवीक्षणमर्थिजने दिश चारुतनो ।
सकृतभिवीक्षणजातमहोदयशक्रमुखाखिलदेवगणे
जय जय हे मधुसूदनमोहिनि मोदविधायिनि वेदनुते ॥ ९॥
सुतधनमौक्तिकहैमनिवेशितरत्नसुभूषण दानरते
रथगजवाजिसमावृतमन्दिरराज्यसुकल्पनकल्पलते ।
कुसुमसुचन्दनवस्त्रमनोहररूपकलारतिपोषरते
जय जय हे मधुसूदनमोहिनि मोदविधायिनि वेदनुते ॥ १०॥
धिमि धिमि धिन्धिमि धिन्धिमि धिन्धिमि दुन्दुभिनादसुपूर्णदिशे
घुम घुम घुङ्घुम घुङ्घुम घुङ्घुम शङ्खनिनादसुतुष्टिवशे ।
नटनकलापटुदेवनटीकुलचङ्क्रमनर्तनदत्तदृशे
जय जय हे मधुसूदनमोहिनि मोदविधायिनि वेदनुते ॥ ११॥
हरिहरपूजनमद्भुतभाषणमष्टसुसिद्धिमुपानय मे
मधुकृतपायसमुद्गकृतौदनभक्ष्यनिवेदनतुष्टमते ।
सकलसुमार्पणपूजनसम्भ्रमदेववधूकुलसंवलिते
जय जय हे मधुसूदनमोहिनि मोदविधायिनि वेदनुते ॥ १२॥
अनवधिमङ्गलमार्तिविनाशनमच्युतसेवनमम्ब रमे
निखिलकलामतिमास्तिकसङ्गममिन्द्रियपाटवमर्पय मे ।
अमितमहोदयमिष्टसमागममष्टसुसम्पदमाशु मम
जय जय हे मधुसूदनमोहिनि मोदविधायिनि वेदनुते ॥ १३॥
करधृतशुक्लसुमावलिनिर्मितहारगजीवृतपार्श्वतले
कमलनिवासिनि शोकविनाशिनि दैवसुवासिनि लक्ष्म्यभिदे ।
निजरमणारुणचन्दनचर्चितचम्पकहारसुचारुगले
जय जय हे मधुसूदनमोहिनि मोदविधायिनि वेदनुते ॥ १४॥
अनघमनन्तपदान्वितरामसुदीक्षितसत्कृतपद्यमिदं
पठति शृणोति च भक्तियुतो यदि भाग्यसमृद्धिमथो लभते ।
द्विजवरदेशिकसन्नुतितुष्टरमे परिपालय लोकमिमं
जय जय हे मधुसूदनमोहिनि मोदविधायिनि वेदनुते ॥ १५॥
इति श्री अनन्तरामदीक्षितेन विरचितः श्रीमहालक्ष्मीस्तवः सम्पूर्णः ।
Encoded by Aruna Narayanan
Proofread by Aruna Narayanan, D.K.M. Kartha