श्रीमहालक्ष्मी-स्तवनम्
ॐ लक्ष्मीं नौमि रमाम् ।
कमले ! त्वां कमनीयां वन्दे हरि-रामाम् ।
ॐ लक्ष्मीं नौमि रमाम् ॥ (ध्रुवम्)॥
धात्री त्वमन्नपूर्णा भरणी त्वं जगताम् । (अयि !)
पातक-हरणीं मातः ! नौमि वरद-हस्ताम् ॥ १॥
ॐ लक्ष्मीं नौमि रमाम् ॥
अम्बुज-नयनां वन्दे कम्बु-गदादि-कराम् । (अयि !)
वरुणालय-सम्भूतां करुणा-स्नेहभराम् ॥ २॥
ॐ लक्ष्मीं नौमि रमाम् ॥
पद्मालयां नतोऽहं पद्ममुखीं पद्माम् । (अयि !)
सद्मासि त्वं महसां त्वं विजयसेतमाम् ॥ ३॥
ॐ लक्ष्मीं नौमि रमाम् ॥
दह दारिद्र्-यं दुःखं हर जालं विपदाम् । (अयि !)
अन्न-दायिनीं वन्दे महतां पूज्य-पदाम् ॥ ४॥
ॐ लक्ष्मीं नौमि रमाम् ॥
वन्दे वैभव-दात्रीं सुन्दरता-प्रतिमाम् । (अयि !)
त्वामरविन्दासीनां महेश्वरीं सौम्याम् ॥ ५॥
ॐ लक्ष्मीं नौमि रमाम् ॥
दिव्य-विभूषण-भव्यां जननीमभिरामाम् । (अयि !)
नारायणीं वरेण्यां वन्दे सिन्धुसुताम् ॥ ६॥
ॐ लक्ष्मीं नौमि रमाम् ॥
नौमि महालक्ष्मीं वै भुवनानां प्रिय-माम् । (अयि !)
हिरण्मयीं श्रीरूपां कृपामयीं परमाम् ॥ ७॥
ॐ लक्ष्मीं नौमि रमाम् ॥
दोषं मार्जय मातः ! भक्तिः स्वीक्रियताम् । (अयि !)
तुभ्यं नमस्स्तवोऽयं सौभाग्यं तनुताम् ॥ ८॥
ॐ लक्ष्मीं नौमि रमाम् ॥
स्तवनं देव्या लक्ष्म्याः वहतु मुदं नितराम् ।
मातृकृपा हृत-दैन्या रमयतु विश्वधराम् ॥ ९॥
ॐ लक्ष्मीं नौमि रमाम् ॥
(इति श्रीहरेकृष्णमेहेर-प्रणीतं श्रीमहालक्ष्मी-स्तवनं सम्पूर्णम् ।)
-- गीतरचना : डाॅ हरेकृष्ण-मेहेरः
(मौलिक-संस्कृत-गीतम्)
Copyright Dr.Harekrishna Meher