श्रीमूकाम्बिका सुप्रभातम्
उत्तिष्ठोत्तिष्ठ मूकाम्बा उत्तिष्ठ जगदीश्वरि ।
निद्रां मुञ्च महामाये त्रिलोकीं परिपालय ॥ १॥
ब्रह्मर्षिसिद्धमुनिसङ्घमुपेत्य देवि
त्वद्द्वारदेशमधितिष्ठति दर्शनार्थम् ।
निद्रां जहि ह्यमलभक्तजनानुकम्पे
मूकाम्बिके परशिवे तव सुप्रभातम् ॥ २॥
ब्रह्मेन्द्ररुद्रवरुणा भगवाननन्त-
शेषो धनेश शशिभास्करवह्निमुख्याः ।
तत्त्वं त्वदीयमवगन्तुमुपस्थितास्ते
मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ३॥
वाल्मीकिकश्यपपराशरगौतमादि-
भृग्वङ्गिरा सनकनारदवामदेवाः ।
द्वार्यागताः सगुणरूपमुपासितुं ते
मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ४॥
विद्याधरप्रमथकिन्नरयक्षनाग-
गन्धर्वसिद्धपितरश्च समास्थितास्ते ।
द्रष्टुं तवाङ्घ्रियुगलं कृतकृत्यतार्थं
मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ५॥
त्वद्दर्शनाय विधिवद्विहिताग्निहोत्रा
तिष्ठन्त्युपायनकरा ऋषयो मुनीन्द्राः ।
उत्तिष्ठ जागृहि महेश्वरि मुञ्च निद्रां
मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ६॥
क्षेत्रं महद्फलदमन्यसुकर्मकर्तुः
कोलापुरं तव महीतलपुण्यभूमिम् ।
आयान्ति साधकजनास्तपसेऽतिदूरात्
मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ७॥
इत्थं पुरश्चरणयोग्यमतिप्रशान्तं
क्षेत्रं पवित्रमिह सिद्धजना वसन्ति ।
त्वत्सन्निधौ भवभयार्तिविनाशनाय
मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ८॥
त्रैयन्तवेद्यविभवे निगमातिदूरे
सृष्टिस्थितिप्रलयकारिणि सर्वनाथे ।
भक्तार्तिनाशिनि सदाचरणप्रसन्ने
मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ९॥
कल्याणि मङ्गलमये निजबोधरूपे
भक्तेष्टदाननिरते भवसिन्धुसेतो ।
कोलर्षिनारदमुखैरुपगीतकीर्ते
मूकाम्बिके परशिवे तव सुप्रभातम् ॥ १०॥
श्रीमन्महेश्वरि सदाशिववल्लभेति
कामेश्वरीति भजतां भयहारिणीति ।
वागीश्वरीति मनसां वचसामगम्ये
मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ११॥
सर्वाश्रिते जननि चन्द्रकलावतंसे
कम्भासुरासुहरशक्तिधरे भवानि ।
मूकाम्बिकेति सततं प्रवदन्ति सन्तः
मूकाम्बिके परशिवे तव सुप्रभातम् ॥ १२॥
इन्द्रादि सर्वविबुधामलशक्तिराशे
मूकासुराख्यखलदानवदर्पनाशे ।
चन्द्रार्धधारिणि लसच्छुभभालदेशे
मूकाम्बिके परशिवे तव सुप्रभातम् ॥ १३॥
शैलाधिराजतनये परदिव्यरूपे
शुम्भासुरप्रमुखदैत्यविनाशशीले ।
सद्वृत्तभक्तजनदुःखभयार्तिहन्त्रि
मुकाम्बिके परशिवे तव सुप्रभातम् ॥ १४॥
त्वं भक्तरक्षणविधौ विविधस्वरूपं
धृत्वा विनाशयसि दुष्टजनं सलीलम् ।
एतेन ते प्रकटिता भजकानुकम्पा
मूकाम्बिके परशिवे तव सुप्रभातम् ॥ १५॥
ज्योतिर्मयं निखिलदैवतसारभूतं
सर्वार्तिहं मुनिसुरार्चितदिव्यलिङ्गम् ।
कोलापुरे लसति गर्भगृहे त्वदीये
मूकाम्बिके परशिवे तव सुप्रभातम् ॥ १६॥
निष्कामभक्तनिवहाच्च सकामकाच्च
जिज्ञासवत्सहृदयाच्च नितान्तभक्त्या ।
स्वस्वाधिकारमनुसृत्य भजन्ति सर्वे
मूकाम्बिके परशिवे तव सुप्रभातम् ॥ १७॥
श्रद्धालवो जपतपश्चरणानुरक्ताः
कुर्वन्ति साधनमसह्यमपि त्वदीयाः ।
सिद्धिं प्रयान्ति च ततत्पदमग्रहेण variation ततः परमश्रमेण
मूकाम्बिके परशिवे तव सुप्रभातम् ॥ १८॥
संसारसागरसमुद्धराणैकहेतोः
सर्वाभिलाषमपहाय भजन्त्यनन्याः।
तेषां प्रसीदसि मनोरथपूरणाय
मूकाम्बिके परशिवे तव सुप्रभातम् ॥ १९॥
त्वत्पादपद्मभजनार्चनतत्पराणां
मातर्भयं भरसि भावुकसज्जनानाम् ।
त्वत्सेवनाद्विगतकल्मषमानसानां
मूकाम्बिके परशिवे तव सुप्रभातम् ॥ २०॥
सौम्यं वपुः सुललितं तव सुप्रसन्नं
शिष्टेषु कोमलतमं सदयं तथापि ।
दुष्टेषु निर्दयमतीव भयं करोति
मूकाम्बिके परशिवे तव सुप्रभातम् ॥ २१॥
सञ्चिन्तये यदि गतं तव सौम्यरूपं
श्रीपाञ्चजन्यवरदाभयचक्रहस्तम् ।
पद्मासनोपरि रतं स्मितहास्ययुक्तं
मूकाम्बिके परशिवे तव सुप्रभातम् ॥ २२॥
आलस्यदोषनिहताः खलु भाग्यहीनाः
प्रारब्धकर्म बलवन्मनुजा वदन्ति ।
ते तु प्रयत्नविमुखाः प्रपतन्ति दुःखे
मूकाम्बिके परशिवे तव सुप्रभातम् ॥ २३॥
चित्तस्य शुद्धिमखिलस्य ममास्तु कर्म
सत्कर्मशुद्धहृदये मनुजो विकारी ।
शुद्धिं विना न मनसो निजबोधलाभः
मूकाम्बिके परशिवे तव सुप्रभातम् ॥ २४॥
सर्वत्र चञ्चलतरं भ्रममाणदीनं
मां पालय ह्यविरतं दययेति मातः ।
विश्वासतस्तवपदं शरणं प्रपद्ये
मूकाम्बिके परशिवे तव सुप्रभातम् ॥ २५॥
नाहं तपश्चरणमर्चनसाधनं वा
जानामि कर्तुमभयं कुरु पाहि मातः ।
जाने न केवलविधिं किमपीह दीनः
मूकाम्बिके परशिवे तव सुप्रभातम् ॥ २६॥
भावेन देशमनिशं वशमानयन्ति
भावोऽपि कारणमतः कवयो वदन्ति ।
त्याकेशसादृशमिहाद्य भवानि भावं
मूकाम्बिके परशिवे तव सुप्रभातम् ॥ २७॥
यद्भावनान्वितहृदा भवतीं भजन्ति
तद्भावनानुसरणं च तव स्वभावः ।
तस्माद्भजामि भवबन्धविमोचनाय
मूकाम्बिके परशिवे तव सुप्रभातम् ॥ २८॥
यादन्तरङ्गदमनं विषयेषु शान्तिः
दान्तिश्च बाह्यविषयेषु विनिग्रहाख्या ।
शीतोष्णदुःखसूखयोः सहनं तितिक्षा
मूकाम्बिके परशिवे तव सुप्रभातम् ॥ २९॥
वेदोक्तकर्मनिचयाचरणेन नित्यं
वाक्कायमानसिकपापसमूलनाशम् ।
वाञ्छन्ति भावुकजनस्त्वदनुग्रहेण
मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ३०॥
शक्तिस्तु सर्वजगतां तव देव्यधीना
विश्वं सृजस्यवसि हंसि च देवि काले ।
लिलेयमीश्वरि तवातुलदिव्यरूपे
मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ३१॥
मोहान्धकारचरमूढजनो न चैतत्
जानाति देवि जगतीति तवैव माया ।
मायास्वरूपमवलम्ब्य तनोषि विश्वं
मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ३२॥
सृष्ट्वा चराचरमिदं जगदात्मशक्त्या
तस्मिन्प्रविश्य विविधं च तनोषि रूपम् ।
तस्मान्न चास्ति किमपीह विना त्वयात्र
मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ३३॥
धूम्राक्षलोहितभवौ मधुकैटभौ च
चण्डं च मुण्डमपि शुम्भनिशुम्भ सौख्यौ ।
दुर्गेति हंसि जगतः सुखशान्तिसिद्ध्यै
मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ३४॥
दुर्गेति दुर्गतिहरं तव नामधेयं
श्रीशाम्भवीति च सुखङ्करमप्रमेयम् ।
संसारसागरसमुद्धरणं शिवेति
मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ३५॥
तेजोमयं सुरमणीयमति प्रसन्नं
अत्यन्तसुन्दरमतीव मनोभिरामम् ।
स्वेच्छाधृतं ललितरूपमिदं त्वदीयं
मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ३६॥
सच्चित्सुखं तु निगमागमशास्त्रसारं
ज्ञानं तु शोभनमतीन्द्रियकं सुवेद्यम् ।
श्रुत्यैव सद्गुरुमुखादधिगम्यमम्ब
मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ३७॥
केचित् स्वकर्मफलमेव वदन्ति धीराः
भक्तिं तथा नवविधामपरे महान्तः ।
अन्ये विरक्तिमतुलां परमाप्तिमाहुः
मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ३८॥
श्रद्धासि देवि निखिलागमकर्ममूला
भ्रान्तिश्च मोहजननेन भयार्तिमूला ।
त्वत्सेवया जनहितं विधितुं समर्थः
मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ३९॥
कामेश्वरि प्रणतभक्तजनानुकम्पे
सर्वान्तरङ्गयमुने परिपूर्णरूपे ।
मामुद्धरोद्धर भवाद्भवतापहन्त्रि
मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ४०॥
बुद्धिप्रचोदिनि चराचरविश्वरूपे
निष्कल्मषं कुरु महेशि ममान्तरङ्गम् ।
मज्जन्मसार्थकमिहास्तु तव प्रसादात्
मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ४१॥
सा त्वं दयामयि मयेप्सित भुक्तिमुक्तिं
सर्वं प्रदापय जगज्जननीशपूज्ये ।
सर्वज्ञतासि तव देवि महानुभावे
मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ४२॥
ऐश्वर्यवन्तरहितं कमलालये त्वं
ज्ञानं च सर्वविषयं तव देहि मह्यम् ।
आनन्दतुन्दिलमनोरथमप्रमेयं
मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ४३॥
एकापि सर्वगतया त्वमनेकरूपा
अन्तो न लभ्यत इति त्वमनन्तरूपा ।
सूक्ष्मातिसूक्ष्मकतया त्वमलक्ष्यरूपा
मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ४४॥
शान्तं विशिष्टकमनीयकलाविचित्रं
सान्निध्यपूर्णमतिसुन्दरमन्दिरं ते ।
प्राराजते कुटजपर्वतमूलदेशे
मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ४५॥
अष्टाधिकेषु विविधेष्वपि शक्तिपीठेषु
अष्टादशेष्वपि तथा नवकोटिमूर्तिः ।
एकाप्यनेकशुभरूपधरा विभासि
मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ४६॥
नानुष्ठितं किमपि सार्थककारि कार्यं
लब्ध्वापि चोत्तमजनिं सुविचारमग्नम् ।
तापत्रयार्थभयभीतमिमं प्रपाहि
मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ४७॥
त्वन्नामरूपममलं निगमार्थसारं
नित्यं निरञ्जनमनन्तमजं पुराणम् ।
ब्रह्मेति शाश्वतमखण्डसुखं वदन्ति
मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ४८॥
स्वान्तःसुखाय वरदे सुमतिप्रकाशं
कृत्वाव मामिति पुनःपुनरर्थयामि ।
सच्चित्सुखानुभवशान्तिहृदं कुरुष्व
मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ४९॥
त्वद्दासदासगणनायकसत्यशास्त्री
याचत्यनन्तभव आर्तजनानुकम्पे ।
भक्तिं प्रयच्छ भवतापविनाशयित्रि
कोलापूरेश्वरि शिवे तव सुप्रभातम् ॥ ५०॥
मङ्गलं तेऽस्तु मूकाम्बा मङ्गलं सर्वमङ्गले ।
मङ्गलं तव सद्रूपं त्रैलोक्यं मङ्गलं कुरु ॥ ५१॥
इति श्रीमूकाम्बिका सुप्रभातं समाप्तम् ।
Proofread by PSA Easwaran, NA