मृतवत्सा कवचम्
कुब्जिकातन्त्रे सप्तदशः पटलः ।
ॐ सिद्धिः ।
ॐ नमो नरसिंहाय ।
ॐ ॐ हां हां ह्रीं ह्रीं स्वाहा ।
अथ मृतवत्सा कवचम् ।
श्रीभैरव उवाच -
भगवन् सर्वधर्मज्ञ सर्वशास्त्रार्थपारग ।
स्त्रीभूत दानमी देव्याः कर्म स्वमय प्रभो ।
श्रीभगवान् उवाच -
स्त्रीभूत दामनी देवी बीजरूपा सदावतु ।
ह्रीं ऐं श्रीं वैं वैं वैं वैं रक्ष रक्ष सर्वभूतोपद्रवेब्यः स्वाहा ॥
ह्रीं पातु काली सर्वाङ्गं संसो भटराजाय स्वाहा ।
ह्रीं पातु वृद्धरूपसमातृका सर्वतोहरतु ।
इदन्तु परमं गुह्यं साधकाभीष्टदायकम् ।
सर्वरक्षाकरञ्चैव भूतप्रेतैर्विशेषतः ॥
अनपत्यया च या नारी मृतवत् सा च या भवेत् ।
वहूपुत्री जीववत्सा भवत्येव न संशयः ।
भूतप्रेतपिशाचाश्च ये चान्येऽनिष्टकारकाः ।
दुरादेव पलायन्ते कवचस्य च धारणात् ।
भूतानाञ्च प्रकृतिर्मृतवत् साहरा भवेत् ।
तव धार्यं प्रयत्नेन मृतवत्सा प्रनाशकम् ।
अवश्यं धारयेत् तस्या मृतवत्सादूरं गता ।
इति कुब्जिकातन्त्रे मृतवत्सा कवचं नाम सप्तदशः पटलः ॥