मातृदेवीलीलास्तुतिः
ॐ सदा व्रतैः सतां गतैः सुशास्त्रमार्गवेदितै-
श्चराचरेषु सत्त्वकेषु वासरं(१) गवेषयन् ।
स्वचिद्धनं स्वमातृतोऽद्य लब्धवांस्तु यद्यऽहं
सुजोनदीदिनामकं नमामि तत्सुभक्तितः ॥ १॥
(२)स्वदक्षदोर्गतं रदाऽक्षसूत्रकं सुमूषकासनं
च वामदोर्गतं कुठारमोदकं त्रिदृक् ।
सुदीर्घ(३)कुक्षिशुण्डकं भुजङ्गहारि रक्तभं
सुजोनदीदिनामकं नमामि तत्सुभक्तितः ॥ २॥
यदेव मुक्तविद्रुमाऽसिताऽच्छ(४)पीतपञ्चकं(५),
त्रिलोचनं किरीटचन्द्रशोभितं द्विजैः(६) श्रि(७)तम् ।
श्रुतिक्षि(८)तिर्भवार्तिहृत् सुहंसवाहनं
श्रुतौ(९) सुजोनदीदिनामकं नमामि तत्सुभक्तितः ॥ ३॥
(१०)सुमेरुशृङ्गपीठगं सुरक्तवर्णभं सदा
मृगेन्द्रवाहनं भुजङ्गहारि दुष्टदैत्यहृत् ।
हया(११)धिदिग्भुजैश्च भीरु(१२)सप्तकेन यद्वृतं
सुजोनदीदिनामकं नमामि तत्सुभक्तितः ॥ ४॥
सुकीलप(१३)र्वतस्थितं सुकील(१४)वृन्दमालितं,
चतुर्भुजं किरीटचन्द्रशोभि दुष्टभक्षकम् ।
त्रिदृक्च यत्सुपूजितं सदाऽन्नपानदैर्जनैः
सुजोनदीदिनामकं नमामि तत्सुभक्तितः ॥ ५॥
सरोऽ(१५)न्तरे (१६)सुनागगं विव(१७)र्णभृञ्जलान्तरे,
भुजङ्गहारि पायसप्रियं जयप्रदं नृणाम् ।
सुरागिणां दुरात्मनां भयप्रदं जटेन्दु यत्
सुजोनदीदिनामकं नमामि तत्सुभक्तितः ॥ ६॥
Footnote
१ प्रत्यहं नित्यादिकर्ममार्गैः स्वस्वरूपानन्दमन्वेषयन् ।
२ सर्वात्मतां प्रकटयति ।
३ लम्बोदरं दीर्घनासं च गणेशाकृति यत् ।
४ सितम् । ५ मुक्ताविद्रुमहेमनीलधवलछायात्मकपञ्चशिरस्कम् ।
६ वेदाभिप्रायज्ञैः ७ महागायत्रीस्वरूपेण स्वीकृतम् । ८ वेदभूः ।
९ वेदे च प्रथितं यत् ।
१० काश्मीरे प्रसिद्धश्रीचक्रेश्वराख्यपर्वतस्थितम् ।
११ अष्टाधिकदशभुजैः ।
१२ अमादिदेवीसप्तकेन वृतं शारिकात्म यत् ।
१३ काश्मीरे प्रसिद्धज्वालापर्वतगम् । १४ ज्वालादेवी नामकं यत् ।
१५ सरसां मध्ये कश्मीरे तु ``तुलमुल'' इति संज्ञके
ग्रामेऽनेकनागानां मध्ये प्रसिद्धम् । १६ श्रीमहाराज्ञीनागस्थितम् ।
१७ जलान्तर्विविधरूपप्रकाशकं राज्ञीसंज्ञकं यत् ।
निलिम्पपञ्चम(१)ञ्चगं सुनीलभं त्रिलोचनं
त्रिपूर्षु सुन्दरं सुरारिघातकं भयापहम् ।
कदम्बवाटिकागतं सुभक्तभीतिहारि यत्
सुजोनदीदिनामकं नमामि तत्सुभक्तितः ॥ ७॥
यदेव वैष्णवैश्चतुर्भुजं च नीलसुन्दरं
गदाऽरि(२)शङ्खपद्मकौस्तुभोज्ज्वलं हृदा धृतम् ।
सुपीतवस्त्रमा(३)भृतं खगासनं स्वचिद्घनं
सुजोनदीदिनामकं नमामि तत्सुभक्तितः ॥ ८॥
नृमुण्डस्रग्युतं भुजङ्गभूषितं शिवायुतं
सुपञ्च(४)कं त्रिलोचनं श्मशानभूमिशायि यत् ।
जटेन्दु भुक्तिमुक्तिदं सप्रेतकं वृषासनं
सुजोनदीदिनामकं नमामि तत्सुभक्तितः ॥ ९॥
अरोग(५)ताऽच्छताप्रतापधी(६)स्वधीसुखाऽभया-
ऽसुबन्ध(७)ताधृतिप्रसन्नताजयात्मशक्तिभिः ।
(८)इनेन्दुभौमसौम्यजीवभार्गवादिरूपि यत्
सुजोनदीदिनामकं नमामि तत्सुभक्तितः ॥ १०॥
कृपाणखेटशङ्खशूलबाणचापतर्जनी-
रथाङ्गशोभिदोर्व(९)नं सुदूर्वयाऽनुगं रुचा ।
हया(१०)रिमूर्ध्नि संस्थितं सुरारिरक्तपं च (११)यत्
सुजोनदीदिनामकं नमामि तत्सुभक्तितः ॥ ११॥
सिताऽसिताऽर्कभं(१२) रमाशिवाश्रुतिप्रसूपति
प्रदाकुशत्रु(१३)गोसिताङ्गवाहि चैकशीर्षकम् ।
शरास्यकं चतुर्मुखं यदेव मागुण(१४)क्रमात्
सुजोनदीदिनामकं नमामि तत्सुभक्तितः ॥ १२॥
अनेकशीर्षपाददोःश्रवाक्षिवक्षसास्यकं
सहस्रवस्त्रवर्णभूषणायुधाकृतिश्रितम् ।
अनेकपत्र(१५)शस्त्रनागसत्त्वकर्मभृच्च
यत् सुजोनदीदिनामकं नमामि तत्सुभक्तितः ॥ १३॥
Footnote
१ ब्रह्मविष्णुरुद्रेश्वरसदाशिवाख्यपञ्चदेवात्मपर्यङ्क-
स्थितं त्रिपुरसुन्दरीस्वरूपं यत् । २ सुदर्शनचक्रं
३ लक्ष्मीयुतं विष्णुरूपं यत् । ४ सुपञ्चशिरस्कं शिवात्मकं यत् ।
५ नवग्रहाणां तु । ``आरोग्यं तरणिः शशी विमलतां भौमः
प्रतापोदयं बुद्धिं शीतकरात्मजः सुरगुरुर्ज्ञानं सुखं
भार्गवः । धैर्यं सूर्यसुतश्च राहुरभयं केतुः प्रसादं
ध्रुवः शौर्यं कुम्भसमुद्भवोप्यथ जयं दिश्यन्तु सर्वे
ग्रहाः'' इत्यात्मकाः चिच्छक्तय एवेत्यर्थः । ६ ज्ञानम् ।
७ शौर्यम् । ८ एकादशग्रहात्म । ९ भुजाष्टकम् ।
१० महिषोत्तमाङ्गस्थितम् । ११ श्रीदुर्गाख्यम् । १२ रक्तवर्णम् ।
१३ गरुडवृषहंसाधिरूढम् ।
१४ मायायाः सत्वतमोरजसामुपाधितः विष्णुशिवब्रह्मात्मकं यत् ।
१५ वाहनं विराडात्मकं यत् ।
पडूरगोविन्दकौलजं हि जोनदीदिभा(१)वनं पठेत्
हृदीद्धभा(२)वनो विधाय तत्पदद्वयम् ।
मतिं श्रुतौ रमां गृहे यशो जनेषु दीयतेऽन्विह(३)
त्वऽमुत्र तस्य निर्भयं(४) चिदीश्वरी पदम् ॥ १४॥
Footnote
(१) भक्तिः सर्वात्मकाद्यशक्त्यनुभवविस्फुरणात्मिका,
``बहूनां जन्मनामन्ते'' इति गीतासु ।
(२) तीव्रभक्तिमान् । (३) भक्तियुक्तपाठादनन्तरमेव । (४) कैवल्यं
इति श्रीमद्दत्तात्रेयवंशीय पडरू इत्युपहितगोविन्दकौलानुज्ञया
दैवज्ञकेशवभट्टविरचिता मातृदेवीलीलास्तुतिः समाप्ता ।
Proofread by Aruna Narayanan narayanan.aruna at gmail.com