श्रीमाणिकेश्वरी-स्तवनम्
कलाहाण्डि-मण्डलानामधिष्ठात्री शुभङ्करी ।
जयत्यम्बा लोकवन्द्या देवी श्रीमाणिकेश्वरी ॥ १॥
कल्याणानां मधुर-सरणी शक्तिरूपा शिवानी
हे शर्वाणि ! त्वमसि तमसां नाशयित्री भवानी ।
देहि ज्ञानं कुरु सुकरुणां मे हर स्वान्त-मोहं
श्रीमाणिक्येश्वरि ! भगवतीं त्वां सुभक्त्या नतोऽहम् ॥ २॥
पुष्पदीपादि-चर्चितां भक्तमङ्गल-दायिनीम् ।
नमामि माणिकेश्वरीं शोकसन्ताप-नाशिनीम् ॥ ३॥
दशहरा-पर्वमध्ये महानवमी-पूजिताम् ।
नौमि श्रीमाणिकेश्वरीं छत्रयात्रा-विराजिताम् ॥ ४॥
त्वं शक्तिदात्री ममतामयी त्वं
प्रसीद देवी हर दुःखजातम् ।
मातः ! समाराधन-सुप्रसन्ना
प्रदेहि शान्तिं हृदये नितान्तम् ॥ ५॥
देहि बलं समुत्साहं मातः ! प्रियजन-स्तुते ! ।
विपदां हारिणी देवि ! दह क्लेशं नमोस्स्तु ते ॥ ६॥
विनश्यतु दुर्भावना देहि चित्ते परिष्कृतिम् ।
शरणागत-वत्सले ! मात-र्मे जहि दुर्गतिम् ॥ ७॥
त्वत्-प्रसादात् परिवेशे भवतु निर्मल-क्रमः ।
देहि श्रद्धां सद्भावनां माणिक्यदेवि ! ते नमः ॥ ८॥
माणिक्यदेवी-स्तवनं यः पठेद् वा जपेदिदम् ।
देव्यनुकम्पया शुभं लभते सुखशान्तिदम् ॥ ९॥
इति श्रीहरेकृष्णमेहेर-विरचितं श्रीमाणिकेश्वरी-स्तवनं सम्पूर्णम्
-- रचयिता - डाॅ हरेकृष्ण-मेहेरः
Copyright - Dr. Harekrishna Mehera