श्रीलोकनायकीपापविनाशेश्वरस्तोत्रम्
(श्रीपापविनाशक्षेत्रे)
लोकनायकि कृपामृतराशे पाकचन्द्रविलसत्कचभारे ।
शोकवारणनिविष्टमनस्के नाकनाथविनुते परिपाहि ॥ १॥
पापानां नाशः स्याद्विशेषतो यत्त्वदङ्घ्रिवीक्षातः ।
पापविनाशेश्वर इति तस्मान्नामाभवत्तवेशान ॥ २॥
इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचितं श्रीलोकनायकीपापविनाशेश्वरस्तोत्रं सम्पूर्णम् ।
Proofread by PSA Easwaran