श्रीललिताम्बा-नीराजनम्
श्रीललिता-त्रिपुर-सुन्दर्यै नमः ।
जय देवि!, जय देवि!, जय सुन्दरि तनये!, जय सुन्दरि ललिते! ।
शश्वद्-वसतिं कुरु भोरीश्वरि! मम हृदये ॥ जय देवि!, जगदम्ब!।
बिन्दु-त्रिकोण-सहितं षट्-कोणं वृत्तम् । तदुपरि वसु-दल-पत्रं वर्तुलमपि धत्तम् ।
द्वि-गुणी-कृत-वसु-पत्रं मोहित हर-चित्तं द्वार चतुष्टय-निर्मित-यन्त्रोपरि तन्त्रम् ।
जय देवि!, जय देवि!, जय सुन्दरि तनये! जय सुन्दरि ललिते! ।
शश्वद्-वसतिं कुरु भोरीश्वरि! मम हृदये ॥ जय देवि! जगदम्ब!॥ १॥
वामे कलशे पूजित-पूरितमाधारम् । तस्मिन्नर्पित-पूजित-पूरितमाधारम् ॥
एवं पञ्चावरणित-कर्णित-गुण-सारम् । मां देहि त्वं-भुवने! दुर्घट-संसारम् ॥
जय देवि!, जय देवि!, जय सुन्दरि तनये!, जय सुन्दरि ललिते! ।
शश्वद्-वसतिं कुरु भोरीश्वरि! मम हृदये ॥ जय देवि!, जगदम्ब!॥ २॥
कलशामृत-जल-पूजित-नव-पात्र-समेतम् । गणपति-योगिनी बटुक-क्षेत्राधिप-युक्तम् ॥
अर्चन-विधिना सहितं श्रीगुरु-विधि-युक्तं, तारक-पण्डित-विद्या-भक्त्याऽखिल-दत्तम् ।
जय देवि!, जय देवि!, जय सुन्दरि तनये!, जय सुन्दरि ललिते! ।
शश्वद्-वसतिं कुरु भोरीश्वरि! मम हृदये ॥ जय देवि!, जगदम्ब!॥ ३॥
इति श्रीललिताम्बा-नीराजनं सम्पूर्णम् ।
Encoded and proofread by Aaditya Kalyanaraman