श्रीलक्ष्म्यष्टकम्
महालक्ष्मि भद्रे परव्योम-वासि-
न्यनन्ते सुषुम्नाह्वये सूरुजुष्टे ।
जये सूरितुष्टे शरण्ये सुकीर्ते
प्रसादं प्रपन्ने मयि त्वं कुरुष्व ॥ १॥
सति स्वस्ति ते देवि गायत्रि गौरि
धृवे कामधेनो सुराधीश-वन्द्ये ।
सुनीते सुपूर्णेन्दु-शीते कुमारि
प्रसादं प्रपन्ने मयि त्वं कुरुष्व ॥ २॥
सदा सिद्ध-गन्धर्व-यक्षेश-विद्या
धरैः स्तूयमाने रमे राम रामे ।
प्रशस्ते समस्तामरी-सेव्यमाने
प्रसादं प्रपन्ने मयि त्वं कुरुष्व ॥ ३॥
दुरितौघ-निवारणे प्रवीणे
कमले भासुर-भागधेय-लभ्ये ।
प्रणव-प्रतिपाद्य-वस्तुरूपे
स्फुरणाख्ये हरिवल्लभे नमस्ते ॥ ४॥
सिध्ये साध्ये मन्त्रमूर्ते
वरेण्ये गुप्ते दृप्ते नित्यमुद्गीथविद्ये ।
व्यक्ते विद्यद्भाविते भावनाख्ये
भद्रे भद्रं देहि मे संश्रिताय ॥ ५॥
सर्वाधारे सद्गतेऽध्यात्मविद्ये
भाविन्यर्थ-निर्वृतेऽध्यात्मवल्ली ।
विश्वाध्यक्षे मङ्गलावासभूमे
भद्रे भद्रं देहि मे संश्रिताय ॥ ६॥
अमोघसेवे निज-सद्गुणौघे
विदीपितानुश्रव-मूर्धभागे ।
अहेतुमीमांस्य-महानुभावे
विलोकने मां विषयी-कुरुष्व ॥ ७॥
उमा-शची-कीर्ति-सरस्वती-धी-
स्वाहादि-नानाविध-शक्तिभेदे ।
अशेष-लोकाभरण-स्वरूपे
विलोकने मां विषयी कुरुष्व ॥ ८॥
इति श्रीअहिर्बुध्न्यसंहितायां श्रीलक्ष्म्यष्टकं सम्पूर्णम् ।
Proofread by Vani V., Rajani Arjun Shankar