लक्ष्मीशतकम्
आनन्दं दिशतु श्रीहस्तिगिरौ स्वस्तिदा सदा मह्यम् ।
या कौतुकं विधत्ते साकृतेनावलोकनेन हरेः ॥ १॥
यन्नाम कीर्तनीयं श्रीरित्यादौ प्रियं हरेर्नाम्नाम् ।
सा मे समस्तजननी सन्ततमुदयाय भूयसे भूयात् ॥ २॥
श्रीवरदेश्वरदयिते वाञ्छामि त्वां यथामति स्तोतुम् ।
स्वल्पोऽपि डिम्भजल्पो मातुः प्रीतिं कथं न सञ्जनयेत् ॥ ३॥
मुररिपुमोहनधाम्ने मूर्तिविनिर्धूतविष्फुरद्धेम्ने ।
दिविषदमेयविभूम्ने लक्ष्मीनाम्ने परं नमो भुम्ने ॥ ४॥
करिगिरिनायककान्ते दान्तजनस्वान्तपङ्कजनिशान्ते ।
मयि भवमरणाश्रान्ते करुणां शरणागते कुरु प्रगुणाम् ॥ ५॥
वाचामकृत्रिमाणामपि मुनिमनसामगोचरे देवि! ।
त्वद्वर्णने मदीयां काङ्क्षां सफलां करोतु ते करुणा ॥ ६॥
माखद्विधु विम्बास्ये मङ्गलसौम्याकृते गुरुश्रोणि ! ।
भृगुनन्दिनि मन्दगते रोमलताहे जयाब्धिकुलकेतो ! ॥ ७॥
धन्यं प्रसूनगर्भं धम्मिल्लं देवि तावकं मन्ये ।
प्रसवशरेण न्यस्तं तूणं बाणौघपूर्णमर्णवजे ॥ ८॥
त्वत्केशपाशशोभापरिमोषाणां फलं पयोदानाम् ।
देवि तटिद्गुणवन्धो नोदनमनिलैः पलायनं दिक्षु ॥ ९॥
निन्दति नीरधिकन्ये ! कचनिचयस्ते कलापिनं कान्त्या ।
अस्यति बर्हं न कथं भुजङ्गवृत्तिश्च पक्षपाती च ॥ १०॥
जयतु विपक्षं पद्मे ! बर्हिणवर्हं त्वदीयकेशभरम् ।
त्वत्कान्तस्य सपक्षं घनमपि कान्त्या कथं पराकुरुते ॥ ११॥
वर्हं विगर्हिताभं शस्तेनानेन केशहस्तेन ।
मत्वाभवन्मयूरा मन्दाशा जीविते वृतविषाशाः ॥ १२॥
दिव्यामम्बुधिकन्ये! दृष्ट्वा केशश्रियं तवाम्भोदाः !
आरुह्याद्रिश्रेष्ठं कुरुते त्रपयेव जीवनत्यागम् ॥ १३॥
सिन्दूरसुन्दरी ते पद्मे ! सीमन्तपद्धतिर्भाति ।
वर्षावलाहकस्था विद्युल्लेखेव वीतचाञ्चल्या ॥ १४॥
वेणीमम्बुधिकन्ये ! भृङ्गश्रेणीमिव स्फुरन्ती ते ।
शम्बरवैरिकृपाणीं शङ्के मानापहारिणीं शौरेः ॥ १५॥
फालेनाभिमुखेन प्रतिमाकाङ्क्षी तवेन्दुरम्बुधिजे ! ।
अर्धाकृतिः कलाभिः पूर्णो भवति क्रियासमभिहारात् ॥ १६॥
कर्णावतंसलक्ष्मी कलयति कमले ! विशालदृष्टिस्ते ।
नीलोत्पलस्य कृत्यं किमिति श्रुतिमूलशालिनी चिन्त्यम् ॥ १७॥
वन्दीकृतं कटाक्षैरिन्दीवरमेतदिन्दिरे ! श्रवसि ।
न्यस्तं पुनः पुनस्तन्नित्यं शङ्कीव वीक्षते चक्षुः ॥ १८॥
नयनमुदञ्चत्करुणं नानाशृङ्गारमङ्गळाकारम् ।
देवि त्वदाश्रितानां कर्णमतिक्रव्य काइक्षितं दत्ते ॥ १९॥
कल्लोलिनीशकन्ये ! त्वल्लोचनकान्तिलिप्सया किं वा ।
द्विजराजपादसेवां जीवञ्जीवः करोति सर्वोऽपि ॥ २०॥
स्फुरति तव श्रुत्यन्ते पतिरिति यत् प्राहुरम्ब ! वेदविदः ।
श्रुत्यन्तमेति तत्ते दृष्टिः कान्तावलोकनासक्ता ॥ २१॥
उल्लङ्घितश्रुतीनामुदधिसुते ! शोभनं नहीति मृषा ।
येन तवेदं व्यक्तं श्रुतिपथमुल्लङ्घ्य शोभनं नयनम् ॥ २२॥
श्रुत्यन्ते कृतवसतिः पाद्मरुचिं ते प्रकाशयन्त्यब्जे ! ।
परमार्गदृष्टिसृष्टां दृष्टिरियं वैष्णवीं च दूषयति ॥ २३॥
देवि ! निमित्तगुणस्य क्वापि न दृष्टं हि कार्यसङ्क्रमणम् ।
अनृतमितीदं वचनं यत्वदपाङ्गादनङ्गसद्भावः ॥ २४॥
आद्यावतारशोभामङ्गीकुर्वाणसात्मनाथस्य ।
निरुपमसुषमं को वा चक्षुस्तव देवि ! दक्षिणः स्तोतुम् ॥ २५॥
असृजत् कमलं धाता तुलनां देवीक्षणस्य ते वाञ्छन् ।
असदृशभावादमुना नाम प्राप्तं जलजमित्युचितम् ॥ २६॥
लोकजनन्यतिभास्वल्लोचनशफरीविराजमानं ते ।
कान्तं नासावंशं केतुं मदनस्य के न शंसन्ति ॥ २७॥
त्वनासिकात्तगन्धस्त्रपयेवाघोमुखस्तिलप्रसवः ।
मुहुरश्रूणि प्रायो मुञ्चति मातर्मरन्दविन्दुमिषात् ॥ २८॥
नासामौक्तिकमेतन्मन्ये वाराशिकन्यके! धन्यम् ।
तव मुखताराधिपतेः कामादेकं कळञमङ्गगतम् ॥ २९॥
मुक्तोत्पत्तिस्थानं सरसिजमिति यत् समस्तकविसिद्धम् ।
तद्वयक्तीकरणं ते नासामुक्ताफलस्य देवि ! फलम् ॥ ३०॥
परिभूतकुन्दकुसुमं भासा नासाग्रभास्वरं पद्मे ! ।
मुक्ताफलं मुरारेर्मोहनगुडिकेव मान्मथी भाति ॥ ३१॥
भासा विराजमानं नासामुक्ताफलं मम स्फुरति ।
अम्ब ! तवाननपद्मे स्मितरुचिहंसीप्रसूतमण्डमिव ॥ ३२॥
दुर्वृत्तः खलु लोके कमले ! कुर्यात् सतां तिरस्कारम् ।
नित्यसुवृत्तेन कथं नासामणिना सतां तिरस्कारः ॥ ३३॥
कर्णेन तेऽब्धिकन्ये! ताटङ्कादेः प्रतीयते शोभा ।
कर्णस्य हि स्वभावः श्रीमन्तं यत् स्वमाश्रयं कुरुते ॥ ३४॥
तर्को ममाब्धिकन्ये! हाटकताटङ्कचक्रमर्क इति ।
यद्येतदेष न स्यात् कर्णासक्तिः कथं भवेदस्य ॥ ३५॥
भाति कपोलः कमले! पत्युः शृङ्गारमणिमयादर्शः ।
प्रतिफलिततन्मुखोऽयं हृद इव सोऽधोविकस्वराम्बुरुहः ॥ ३६॥
मधुरवचोगणनायां मातस्त्वद्गीरभूदियं प्रथमा ।
नैव द्वितीयवार्ता कोकिलवादे कुतो नु पञ्चमता ॥ ३७॥
साम्याभिलाषदोषं सम्मार्ष्टुं त्वद्विरा चिरादिक्षोः ।
चक्रे पञ्चशरस्तं चापानमनापदेशतः प्रणतम् ॥ ३८॥
अर्णवकन्ये ! धन्यामाकर्णयतस्त्वदीरितां वाचम् ।
शुकपिकवचनश्रवणं श्रुतिपुटकटु देवि ! कस्य वा न भवेत् ॥ ३९॥
कस्य गिरस्ते श्रोतुः कमले वदनारविन्दकन्दळिताः ।
न भवेन्महती प्रीतिर्नारदमेकं विना मुनीशानम् ॥ ४०॥
मकरन्दाः सुनरसाः शुकपिकवाचोऽपि विस्वरा येन ।
वीणाः परिवादिन्यस्तेन किलाब्जे ! तवोपमा न गिराम् ॥ ४१॥
अम्बाभिजातवाणीधनरसमाधुर्यचौर्यकारी ते ।
अतिमर्दनासहिष्णुर्मुषितरसानेष मुञ्चतीवेक्षुः ॥ ४२॥
नीरतयेव मरन्दो भाव्यश्श्रवणे तवाब्धिजे ! वाचाम् ।
स्वादित एव सुधायाः स्वाद्येति ख्यातिरपि न माधुर्यात् ॥ ४३॥
अधरेण बन्धुजीवं मुखतः प्राभातिकं च राजीवम् ।
दूरीकरोषि किं वा देवि ! त्वं सर्वजीवकरुणार्द्रा ॥ ४४॥
अन्ते वसन् द्विजानामवदातानामतिस्फुरद्रूपः ।
अम्ब ! तवाधिकमधरो बिम्बप्रतिबिम्बयोग्योऽभूत् ॥ ४५॥
सन्ततपल्लवयोगे मुक्तिर्न शुचेरपीति वाङ् मिथ्या ।
देवि! तवाधर पल्लवसंयोगेऽध्यमला द्विजा मुक्ताः ॥ ४६॥
तव तटिनीपतिकन्थे ! द्विजपटली वदनशुक्तिमुक्ताश्रीः ।
अतनुयशोबीजानामङ्कुरपङ्क्तिः परिस्फुरन्तीव ॥ ४७॥
वदनं सुधाकरस्ते वारिधिकन्ये ! न तत्र सन्देहः ।
वचनापदेशमेतन्नो चेदमृतं कथं ततः प्रभवेत् ॥ ४८॥
भ्रूयुगळं भृगुतनये ! कुसुमशरस्येव सव्यसाचितया ।
आरोपिताक्षिबाणं कोदण्डद्वन्द्वमिति मतिं दत्ते ॥ ४९॥
अब्जद्वयमपि विजितं तव कमले! वक्त्रशोभया तत्र ।
अम्बरमेकं शरणं शम्बरमपरं च सत्वरं प्रापत् ॥ ५०॥
चन्द्रोऽभवद् विषादी चारु मुखं देवि! तावकं वीक्ष्य ।
कुक्षिगतं गरमस्य प्राहुः पङ्कं कळङ्कमित्येके ॥ ५१॥
विजितस्त्वन्मुखकान्त्या देवि ! निराशो निशाकरो जीवे ।
भृगुपतनं कुरुतेऽसावस्तमथ व्याजतोऽन्वहं तूर्णम् ॥ ५२॥
अम्ब ! यतस्ते नितरामाननकान्त्या तृणीकृतश्चन्द्रः ।
आतः किल तृणबुद्धया मुञ्चति नैनं मृगः कदाचिदपि ॥ ५३॥
देवि ! तवाननतुलनामभिलषतां सागसां सरोजानाम् ।
मज्जनमप्सु च बन्धः शैवलपाशेन षट्पदैः प्रसृतिः ॥ ५४॥
द्विजराजस्याप्यब्जे ! त्वद्वक्त्रेणोपमानरहितेन ।
समताभिलाषदोषाद्दोषाकरता विधोर्दुरन्ताभृत् ॥ ५५॥
पद्मे ! परस्वहरणं दोषायेति प्रभाषणं मिथ्या ।
अपहृत्य राजलक्ष्मीमपदोषं यद्विभाति ते वक्त्रेम् ॥ ५६॥
निर्जित्य नीरजातं निखिलं मुरवैरिसुन्दरि ! मुखेन ।
आसनमाकलितं ते नूनं पद्मासनासि तेनैव ॥ ५७॥
त्वद्वदनाभिभवोद्यत्तापातिशयं दिवानिशं पद्मम् ।
अम्भसि वासं कुरुते नूनं तस्यापनोदनायाब्जे ! ॥ ५८॥
सन्ततमित्रविरोधी दोषासक्तः कलङ्कवानिन्दुः ।
तव वदनेन कथं वा कमले! कल्याणगुणभुवा तुल्यः ॥ ५९॥
देवि! तवाननचन्द्रप्रसादभिक्षाटनेन राजापि ।
पूर्णश्चन्द्रिकयाहो जीवञ्जीवस्य तृप्तिमातनुते ॥ ६०॥
त्वत्कण्ठकान्तिभाग्यं दृष्ट्वा शङ्खास्सहस्रशो देवि ! ।
तल्लाभाय पयोधेरन्तं गत्वा चिरं तपस्यन्ति ॥ ६१॥
कण्ठेन ते हृतश्रीः कमले ! विमलोऽपि सन्ततं कम्बुः ।
घुमुघुमुनिनदव्याजात् क्रोशति राज्ञां पुरः समयदर्शी ॥ ६२॥
त्वत्कण्ठकान्तिजनितं भञ्जनमाख्यातुमुद्यता जलजाः ।
विस्तृतजनशब्दतया पद्मिन्याम्रेडयन्ति भं भमिति ॥ ६३॥
कम्बुभ्रमेण कण्ठं चक्रभ्रान्त्या नितम्बबिम्बमपि ।
परिमृशति ते कराभ्यां पतिरतिदुर्भेदशङ्खचक्राभ्याम् ॥ ६४॥
बाहू शिरीषमालामार्दवकीतन्दुमर्दने राहू ।
सेतू समग्रशोभासिन्धोर्मन्ये समुद्रकन्ये ! ते ॥ ६५॥
अतिसुरभिः करपद्मो वाञ्छितदानैर्न केवलं गन्धैः ।
वारिधिपुत्रि ! वदान्यं कविमुक्तं देवि! कल्पमातनुते ॥ ६६॥
देवि ! करेण भवत्या दत्तसमस्तेप्सितेन भक्तानाम् ।
स्पर्शनदूरीकरणं सोदरगीर्वाणशाखिनामुचितम् ॥ ६७॥
देवि ! तवाननभासा परिभूतः पर्वचन्द्रमा नूनम् ।
तेन हि शश्वत् परिधिव्याजप्राकारमध्यमध्यास्ते ॥ ६८॥
पद्मकुलं परिभूतं पद्मे ! त्वत्पाणिपद्मरागेण ।
तत्प्रेषितं सदैकं त्वत्पाणिं सेवते सरोजातम् ॥ ६९॥
अनुदिनमर्काभिमुखं वनभुवि शैवालवल्कलं कमलम् ।
तप्त्वा तपोऽतितीव्रं प्रापत् त्वत्पाणिपद्मसाधर्म्यम् ॥ ७०॥
हारा विभान्ति गौरा हरिदयिते ! ते मुखोडुराजस्य ।
सेवार्थमागतानां ताराणामिव गणाः पुरोगाणाम् ॥ ७१॥
हारलता तब पद्मे ! सुकुमारस्याङ्गभूकुमारस्य ।
क्रीडामृणाळडोळाशङ्कां नाङ्क्रूरयत्यसौ कस्य ॥ ७२॥
तव कुचगिरितटवासी कृतरोमाळीनकन्यकास्नानः ।
कश्चन मुक्ताहारो योगीवाभाति नित्यशुद्धात्मा ॥ ७३॥
उन्नतिमुरोजयुग्मे ! पद्मे दृष्टैव पर्वतास्त्रपया ।
उदधौ चिरं निलीना भीत्या शक्रादिति प्रथामात्रम् ॥ ७४॥
तव कुचकुम्भद्वन्द्वे बद्धस्पर्धानि डाडिमफलानि ।
तुलनाहीनाः कीरास्तुण्डैरेतानि खण्डयन्त्यब्जे ! ॥ ७५॥
कोदण्डस्य पुरारेरुद्दण्डस्यापि हन्त बाणस्य ।
कबळीकुरुते मानं पुगळी कुचयोस्तवेन्दिरे ! युगपत् ॥ ७६॥
सन्ततमुक्ताहारावपि तव पीनौ पयोधरौ भातः ।
तेन कथं पीनत्वं देवि ! भवेद्रात्रिभोजने मानम् ॥ ७७॥
कनकमहीघरगौरवकबलीकरणादिवातिपीनमपि ।
मुक्ताहारवदास्ते स्तनयुगलं देवि ! तावकं चित्रम् ॥ ७८॥
इति किल दर्शनरीतिः कार्यमुपादानकारणाभित्रम् ।
देवि! तव स्तनकुम्भौ चक्राभिन्नौ कथं न दृश्येते ॥ ७९॥
कलयति दण्डः कलशं सर्वैर्बहुशः श्रुतं च दृष्टं च ।
जननि ! तव स्तनकलशो जनयति मधुवैरिमानदण्डमहो ! ॥ ८०॥
सर्वारीणां जेता दुर्वारेणैव देवि! चक्रेण ।
हन्त कथं ते विजितः कान्तो वक्षोरुहात्मचक्रेण ॥ ८१॥
कल्लोलिनीशकन्ये ! कलये रोमावलिप्रभेदेन ।
तव कान्तिवार्धिमध्ये नवजलदश्यामको हरिः शेते ॥ ८२॥
नामीसरोवनान्तः क्रीडन्मदनद्विपाधिपोत्क्षिताम् ।
शैवालवल्लरीं ते रोमलतां देवि ! कथयन्ति ॥ ८३॥
मध्यः प्रथमं मानं महितगुणौघस्तवानुमानमपि ।
वपुरप्युपमितिशब्दं दूरीकुरुतेऽम्ब ! केन वर्ण्यासि ॥ ८४॥
तव कुचकुम्भस्य गुरोरन्तेवासी विवेकहीनस्य ।
दर्शनयोग्यो नाभून्मध्यस्ते देवि ! नास्तिवादरतः ॥ ८५॥
प्रत्यक्षाविषयत्वादतिरिक्तत्वादनङ्गजनकत्वात् ।
देवि ! वलिश्रीभजनान्मध्यस्ते कान्तविभ्रमं तनुते ॥ ८६॥
चिन्तामणिवादस्ते करयोर्द्दशि कामशास्त्रवादोऽब्जे ! ।
मध्ये मायावादो गौरववादः पयोधरद्वन्द्वे ॥ ८७॥
महदणुपरिमाणगतं विश्रान्तं देवि तारतम्यं ते ।
वक्षोरुहे च मध्ये न व्योमादौ न चापि परमाणौ ॥ ८८॥
कठिनात्माघः कुरुते सर्वं कमले! कृथं सनामिगतम् ।
दृष्टमितीदमुरोजे मध्यं कृशमेव कुर्वति स्पष्टम् ॥ ८९॥
तुङ्गपयोधरशैलद्वन्द्वोद्वहनेन सन्ततं देवि ! ।
पश्यामि कार्यमुचितं मध्यस्य श्रीमतोऽपि ते मातः ! ॥ ९०॥
तव रोमराजियमुनानित्यस्फीतेऽपि मध्यदेशेऽस्मिन् ।
क्षामकथा कथमब्जे ! नाभीसरसीपरिष्कृतेऽपि सदा ॥ ९१॥
रोमाळियूपदण्डे चितपशुं बद्धुमम्ब ! ते पत्युः । (बन्धुमम्ब)
सम्पादितेव रशना त्रिवलिमिषेणाङ्गजन्मनाध्वरिणा ॥ ९२॥
आभाति नाभिरब्जे ! तव तनुजनुषा निषादवीरेण ।
पातयितुं हरिचित्तं मत्तभं सम्भृतो यथा गर्तः ॥ ९३॥
शङ्के तवाम्ब ! नाभिं शम्बररिपुणा विजित्य दैत्यारिम् ।
रोमाळिनीलरत्नस्तम्भनिखाताय सम्भृतं वभ्रम् ॥ ९४॥
निवसन्ति येऽधिकाञ्चि प्रायः शुद्धा भवन्ति ते मुक्ताः ।
इति मणिरशनांविकसन्मुक्तावल्याम्ब ! दर्शयस्यद्धा ॥ ९५॥
अवनतमौलिरियं त्वामञ्जलिमभिनीय कुसुमकोशमिषात् ।
रम्भा तवोरुविजिता सम्भावयतीति मे तर्कः ॥ ९६॥
कुम्भीन्द्रकुम्भवृत्तं जानुद्वन्द्वं तवाप्रतिद्वन्द्वम् ।
हन्त हरेरपि धैर्यं हरते दुर्धर्षमब्धिराजसुते ! ॥ ९७॥
जङ्घा निषङ्गशङ्कामङ्कूरयत्यङ्गजेन्मनो देवि ! ।
तत् खलु तदग्रभागे पश्चशरस्फूर्तिमङ्गुलिव्याजात् ॥ ९८॥ (स्फूर्तिरङ्गुलिव्याजात्)
तव पदभावः प्राप्तस्तामरसेनेति नात्र सन्देहः ।
कथमन्यथा स योगो भावी कान्तेन हंसकेनाब्जे ! ॥ ९९॥
पादतले परिदृश्यं पद्मे ! रेखात्मना स्वयं गूढम् ।
तव चरणश्रीमिक्षाचरणं विदधाति सज्यमम्बुरुहम् ॥ १००॥ (सत्यमम्बुरुहम्)
अर्कोऽपि यस्य भजनादजनि श्रीमाननेन जनितश्रीः ।
पद्मं कथं नु तुलनामर्हति पादेन तावकेनाब्जे ! ॥ १०१॥
जलजं कृतसङ्कोचं द्विजराजस्थापि दर्शने देवि ! ।
मानितमधुपं शिरसा कथमधिरोहेत् पदेन ते तुलनाम् ॥ १०२॥
साम्राज्येऽम्बुरुहाणां तव पदमीडेऽभिषिच्यमानमिव ।
जानुस्मृतां जनानां हेतुः सञ्चिन्तितार्थसिद्धीनाम् ॥ १०३॥ (जातिस्मृतां)
मदनदरीजनकबरीनलिनैरुद्यन्मरन्दसंसारे (?) ।
पातु पराकृतपद्मं मातुर्जगतां पदाम्बुजातं माम् ॥ १०४॥
सम्भावितापचारं ज्ञानाज्ञानात्तव स्तुतिव्याजात् ।
देवि सहस्व दयालो ! देहि मम श्रीपतौ परां भक्तिम् ॥ १०५॥
जगति ख्यातिरशेषात्त्वकुलेयेति सर्वसिद्धान्तम् ।(?)
जननि कथं ते ख्यातेरुत्पत्तिः श्रूयते पुराणादौ ॥ १०६॥
यज्ञवराहः श्रीमान् वाधूलम्बालजो धीमान् ।
लक्ष्मी शतकमतानीदक्षीणानन्दकन्दळीकन्दम् ॥ १०७॥
(This stotra in praise of Goddess Lakshmi, the
Deity of Hastigiri (Karmala in Tamil Nadu.)
इति यज्ञवराहकृतं लक्ष्मीशतकं सम्पूर्णम् ।
Proofread by Mohan Chettoor