श्रीलक्ष्मी आर्यावृत्तम्
आर्यावृत्तविचित्र नार्यास्सा जगति सौभगत्वकरी ।
वाय्वा(वार्या)काशाद्यखिला भूर्यावद्धार्यते त्वया देव्या ॥ १॥
उन्मीलय मन्नयने त्वं मान्ये लक्ष्मि लोकमान्यासि ।
चिन्मयसुभगावयवे कर्मकरः स्यामहं च तव कमितुः ॥ २॥
मन्मथजननि मनोज्ञेऽहम्ममतारहितयोगिकुलमहिते ।
दृङ्मलमुन्मूलय मे सम्यक् श्रीकृष्णमूर्तिमीक्षेऽहम् ॥ ३॥
कल्मषखण्डनशीले रम्यकपोले सरोजमुखि सुतनो ।
अम्लानपद्महस्ते निर्मलमच्चक्षुरीक्षतां कृष्णम् ॥ ४॥
पूर्वं त्रिगुणमयी या सर्वं कार्यं करोति या पश्चात् ।
चार्वम्बुजाक्षदीक्षादक्षं मेऽक्षीह सा रमा कुर्यात् ॥ ५॥
वश्यं यस्याः सकलं दृश्यं यस्याः समस्तमपि विश्वम् ।
नश्यत्सु या न नश्येत्क्लिश्यत्सु च या कदाऽपि न क्लिश्येत् ॥ ६॥
ज्ञप्तेः करणानि च षट्पञ्चकृतेर्हेतुभूतकराणानि ।
बुध्येयुर्यत्कृतं सिध्येद्वै तत्फलं च यत्कृपया ॥ ७॥
सा श्रीराश्रितरक्षादिक्षा दुष्कर्मशिक्षणे च पटुः ।
अश्वास्यं हि दिदृक्षोर्मेऽक्ष्णोस्तद्वीक्षणोत्सवं दद्यात् ॥ ८॥
सङ्गीतसाङ्गवेदा मङ्गलदेवी मनोज्ञसर्वाङ्गी ।
भङ्गादिदोषरहिता तं गुणराशिं ममेक्षयेत्स्वपतिम् ॥ ९॥
शक्तिः संवित्स्फूर्तिर्मूर्तिः प्रवृत्तिश्च युद्वशे नित्यम् ।
शक्ता त्वमेव सुजनोद्धर्त्री तं चेत्प्रदर्शय स्वपतिम् ॥ १०॥ var तन्मे प्रदर्शय
कुण्डलरत्नतिलकलसन्नासामणिकण्ठसूत्रहारधरा ।
अङ्गदकङ्कणकाञ्चीसत्कञ्चुकपीतवसनरशनाभा ॥ ११॥
सद्रत्नखचितकिङ्किणिमुद्राग्रैवेयनूपुरादिरुचा ।
भद्रोद्यदिन्दुवदना पद्मा मे मध्ववरदमीक्षयतु ॥ १२॥
या देवी निजरमणस्याङ्कगता पश्यति स्म तं सततम् ।
तस्याः स्तुतिमिति कृतवान्कृष्णदृगर्थी स वादिराजयतिः ॥ १३॥
॥ इति श्रीमद्वादिराजपुज्यचरणविरचितं श्रीलक्ष्मी
आर्यावृत्तं सम्पूर्णम् ॥
Proofread by PSA Easwaran