करतोयानदीस्तुतिः
%८४
प्रायशो वहति या करतो या शुष्यतीह न जलाकरतोया ।
पावनी बहुसुखाकरतोया पातु साऽघनिचयात्करतोया ॥ १॥
करतोये सदातोये बहुशोऽये पुराभये ।
दोषा मे ये कृतास्तेषां सर्वेषां त्वं भवान्तकृत् ॥ २॥
यया छिन्नो बाहुरृषय इह दत्तो हि दयया ।
नदी सेयं मायामयभयलया नित्यविजया ॥
अपायान्मां पायात् सततनिरपायामृतपया ।
सदातोया पेया जगति करतोयाघविलया ॥ ३॥
इति श्रीवासुदेवानन्दसरस्वतीविरचिता करतोयानदीस्तुतिः समाप्ता ।