श्रीकन्याकुमारीपञ्चरत्नस्तुतिः
(श्रीकन्याकुमारीक्षेत्रे)
कान्तिधूतकनकाखिलगर्वां
काञ्चनाश्मसमबुद्धिविधात्रीम् ।
काङ्क्षितार्थलघुदानसमर्थां
काञ्चनात्र कलये हृदि कन्याम् ॥ १॥
मान्यमङ्गजरिपोरपि यत्त-
च्छून्यदेहमतिमुख्यविकल्पैः ।
मन्यते जडजनो हृदि कुर्वे
कन्यकामहमघौघनिवृत्त्यै ॥ २॥
वन्यमूलफलरक्षितदेहै-
र्जन्यसौख्यविमुखैरुपशान्तैः ।
कन्यकां धरपतेरुपसेव्या-
मन्यशून्यहृदयः प्रणतोऽस्मि ॥ ३॥
कुमारीं रमामुख्यदेवाङ्गनार्च्या
समाधिप्रवीणैः समाराध्यपादाम् ।
क्षमागर्वमात्मक्षमातोऽतिदूरं
नयन्तीं शमादीनभीप्सन्नमस्ये ॥ ४॥
क्षपानाथचूडां कृपावारिराशिं
विपापेड्यपादामपारं भवाब्धिम् ।
स्वपादाब्जनम्रान्द्रुतं तारयन्तीं
कुमारी भजे कन्यपूर्वामजस्रम् ॥ ५॥
इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचिता श्रीकन्याकुमारीपञ्चरत्नस्तुतिः सम्पूर्णा ।
Proofread by PSA Easwaran psaeaswaran at gmail.com