श्रीकमलाम्बाष्टकम्
अम्भोजासन शम्भरारि विनुतां रम्भादिसंसेवितां
शम्भा कोटिशतप्रभां शतमखस्कन्देन्दु सम्पूजिताम् ।
अम्भपोतालि निकाश कुन्दलपरामम्भोधरस्यामलां
वन्दे त्वां कमलाम्बिके भगवतीं श्रीचक्रराजेश्वरीम् ॥ १॥
मध्यन्यस्तकराम्बुजां मृढपदावाप्त्यै तपः कुर्वतीं
मन्त्राणामधिदेवतां मनुजपात् वाक्सिद्धि सन्धायिनीम् ।
मल्लीचम्पकमालती मणिलसत् कण्ठां मनोहारिणीं
वन्दे त्वां कमलाम्बिके भगवतीं श्रीचक्रराजेश्वरीम् ॥ २॥
उत्फुल्लारुणपङ्कजाङ्घ्रियुगलामुत्तुङ्गपीनस्तनीं
उद्यद्भास्कर भासमानवसनां सूर्येन्दुबिम्बाननाम् ।
उद्यत्सूर्यनिभां ?उपनिषद्सारां परादेवतां (?)
वन्दे त्वां कमलाम्बिके भगवतीं श्रीचक्रराजेश्वरीम् ॥ ३॥
अङ्गं स्वम्परिधावते स्वशिशवे किन्नायस्तन्यार्थिने
चारोभ्याङ्गमपोह्यचाश्रुजननीस्तन्यं तदात्यादरात् ।
तद्वत्संसृतिपीडितं शिशुमिमां रक्षद्वयमाशु मां
ज्ञानक्षीरगणा द्विजशिशुर्नोरक्षितः किन्त्वया ॥ ४॥
मह्यं दर्शय सुन्दरं निरुपमं त्रैयन्तवेद्यम्पदं
संसारोपशमं सदाशिवमहाभाग्याब्धि चन्द्रोदयम् ।
मार्कण्डेयसुरक्षकं यमहृतः शल्यं यतेर्हृद्सुखं
वन्दे त्वां कमलाम्बिके भगवतीं श्रीचक्रराजेश्वरीम् ॥ ५॥
बालां बालकुरङ्गलालनपरां फालेन्दुचूडामणिं
बालारिष्टनिवारकग्रहवृतां बालेन्दुचूडप्रियाम् ।
भालाशोभन दिव्यगान नदिभिर्हल्लीसलास्यैस्तुतां
वन्दे त्वां कमलाम्बिके भगवतीं श्रीचक्रराजेश्वरीम् ॥ ६॥
कल्याणीं करुणारसार्द्रनयनां कामारि वामाङ्गकां
कस्तूरीमद्भासमान निटिलां कल्हारमालाप्रियाम् ।
कल्पान्तावतिकर्मकोट्रय सुलभां ज्ञानैकलभ्यां सदा
वन्दे त्वां कमलाम्बिके भगवतीं श्रीचक्रराजेश्वरीम् ॥ ७॥
अम्ब त्वामनुचिन्तयामि शुभदामेधे न कामेहतिः
नानाजन्मसु नित्यमेवहिवृथा त्वत्पादभक्तिं विना ।
नोचेन् मेचकथं जनिरभूत्तन्मे वद श्रीकरे
अन्तर्हृद्यपुनर्भवाय सञ्चिन्तये त्वत्पदम् ॥ ८॥
इति श्रीकमलाम्बाष्टकं सम्पूर्णम् ।
Proofread by Mohan Chettoor