श्रीकल्पकाम्बिकाशरणपद्यानि
अव्याजकारुण्यरसप्रवाहां
सव्याजकेलि प्रथितात्मभावाम् ।
वाचां धियां पूर्णफलप्रदात्रीं
श्रीकल्पकाम्बां शरणं प्रपद्ये ॥ १॥
अवैमि शक्तिं भवतीमरूपां
स्त्रीलिङ्कसङ्कल्पितमूर्त्तिभेदाम् ।
तथापि नाम्नामवसानहेतोः
श्रीकल्पकां त्वां शरणं प्रपद्ये ॥ २॥
मुक्तिर्न मे तुष्टिकरी भवेत्सा
यदङ्कसंलालितबालकोऽहम् ।
चक्षुष्मतां भाग्यमिमं नितान्तं
श्रीकल्पकाम्बां शरणं प्रपद्ये ॥ ३॥
रक्ताम्बरां रक्तकिरीटरम्यां
शुके कृपाक्तां प्रतिबिम्बमुक्ते ।
मन्दस्मितालम्बजगत्प्रतिष्ठां
श्रीकल्पकाम्बां शरणं प्रपद्ये ॥ ४॥
अनन्यसाधारणसत्त्वयुक्तां
असत्त्वसंसारसुलीनतत्त्वाम् ।
रूपेण रूपान्तकरीमनन्यां
श्रीकल्पकाम्बां शरणं प्रपद्ये ॥ ५॥
त्वद्रूपलाभे भवतीह केकी
स्कन्दोऽप्यवाहः मृगयन् स्ववाहम् ।
अकिञ्चनोऽहं विविधैःः प्रलापैः
श्रीकल्पकां त्वां शरणं प्रपन्नाः ॥ ६॥
अघप्रसूर्नाहमकल्पिताशः
यदन्तरङ्गे निहितं त्वयैव ।
त्वदीयमाया रचयत्यघं यत्
तस्माच्छिवे त्वां शरणं प्रपद्ये ॥ ७॥
त्वमक्षराणामसि मूलभागे
मौने तदूर्ध्वे परयाऽऽप्तसत्त्वा ।
अतोऽहमीड्ये कविताविलासे
श्रीकल्पकां त्वां शरणं प्रपद्ये ॥ ८॥
भक्त्या विभक्त्या च विवाद वाग्भिः
यत्कल्पितः शास्त्रमतप्रयोगः ।
भवेन्ममास्ये नितरां प्रसादात्
श्रीकल्पकां त्वां शरणं प्रपद्ये ॥ ९॥
त्वद्वीक्षणान्मे हृदये तवाङ्घ्रिः
लभेत संस्थामरुणारुणा सा ।
इतीव सञ्चिन्त्य जगद्धिते त्वां
श्रीकल्पकाम्बां शरणं प्रपद्ये ॥ १०॥
श्रीकल्पकाम्बापदपूजनेप्सा
सञ्जातजल्पं दश पद्यबद्धम् ।
अङ्गीकरोत्वम्बुजनाभविष्णुः
श्रीशेषशायी प्रियकृत्कृपालुः ॥ ११॥
इति वाधूलगोत्रोद्भवेन श्रीवेङ्कटेश्वरार्यस्य
पुत्रेण श्रीशेषशायीशर्माख्येन विरचिता
श्रीकल्पकाम्बिकाशरणपद्यानि समाप्ता ।
Encoded and proofread by PSA Easwaran psaeaswaran at gmail.com