श्रीकल्पकाम्बिका मङ्गलस्तोत्रम्
ओङ्कारस्वरमूलायै ओङ्काराधाररूपिणि
मयिलापुर भाग्यमूले कल्पके ते सुमङ्गलम् ॥ १॥
ऐं वाग्विलासदायिन्यै कपालिहृदयेश्वरि ।
वार्धितीरगृहं दत्तं कल्पके ते सुमङ्गलम् ॥ २॥
क्लीङ्कारगुप्तमायेशि पुंस्त्वे त्वं कृष्णविग्रहा ।
क्षीरवार्धिमाहागेहे कल्पके ते सुमङ्गलम् ॥ ३॥
सौं बीजगतशक्त्याख्यसुन्दरि भुवने शिवे ।
हिमवद्भाग्यसम्भूते कल्पके ते सुमङ्गलम् ॥ ४॥
नृत्यद्गणेशसन्तुष्टे स्कन्दकोपनिवारणि ।
जननि शब्दपूज्ये ते कल्पके ते सुमङ्गलम् ॥ ५॥
अस्पष्टयौवने बाले महाराज्ञ्यन्तकान्तके ।
अभिरामि महाभागे कल्पके ते सुमङ्गलम् ॥ ६॥
पूर्णे पुण्यतमे पुण्ये पुण्यापुण्यविवर्जिते ।
ब्रह्मसूच्ये ब्रह्मवाच्ये कल्पके ते सुमङ्गलम् ॥ ७॥
कालस्वभावविहितजन्ममृत्युजरान्तके ।
आदिमातर्नमस्यन् त्वामर्पयेऽत्र सुमङ्गलम् ॥ ८॥
मन्दस्मितमहासूत्रबद्धमाहेश्वरेश्वरि ।
महायासविनाशाय कल्पके तेऽस्तु मङ्गलम् ॥ ९॥
विषाशनाच्चिरञ्जीवी बभूव शशिशेखरः ।
त्वद्वीक्षणविशेषेण तस्मात्तेऽस्तु सुमङ्गलम् ॥ १०॥
बालापादसरोजाक्तशेषशायिकृतं हरिः ।
मङ्गलं कल्पकाम्बायाः करोतु शुभदं सदा ॥ ११॥
इति वाधूलगोत्रोद्भवेन श्रीवेङ्कटेश्वरार्यस्य
पुत्रेण श्रीशेषशायीशर्माख्येन विरचितं
श्रीकल्पकाम्बिकामङ्गलस्तोत्रं सम्पूर्णम् ।
Encoded and proofread by PSA Easwaran