श्रीकृष्णस्तोत्रम् राधाकृतम्
गोलोकनाथ गोपीश मदीश प्राणवल्लभ ।
हे दीनबन्धो दीनेश सर्वेश्वर नमोऽस्तु ते ॥ १॥
गोपेश गोसमूहेश यशोदाऽऽनन्दवर्धन ।
नन्दात्मज सदानन्द नित्यानन्द नमोऽस्तु ते ॥ २॥
शतमन्योर्भग्नमन्यो ब्रह्मदर्पविनाशक ।
कालीयदमन प्राणनाथ कृष्ण नमोऽस्तु ते ॥ ३॥
शिवानन्तेश ब्रह्मेश ब्राह्मणेश परात्पर ।
ब्रह्मस्वरूप ब्रह्मज्ञ ब्रह्मबीज नमोऽस्तु ते ॥ ४॥
चराचरतरोर्बीज गुणातीत गुणात्मक ।
गुणबीज गुणाधार गुणेश्वर नमोऽस्तु ते ॥ ५॥
अणिमादिकसिद्धीश सिद्धेः सिद्धिस्वरूपक ।
तपस्तपस्विंस्तपसां बीजरूप नमोऽस्तु ते ॥ ६॥
यदनिर्वचनीयं च वस्तु निर्वचनीयकम् ।
तत्स्वरूप तयोर्बीज सर्वबीज नमोऽस्तु ते ॥ ७॥
अहं सरस्वती लक्ष्मीर्दुर्गा गङ्गा श्रुतिप्रसूः ।
यस्य पादार्चनान्नित्यं पूज्यास्तस्मै नमो नमः ॥ ८॥
स्पर्शने यस्य भृत्यानां ध्याने चापि दिवानिशम् ।
पवित्राणि च तीर्थानि तस्मै भगवते नमः ॥ ९॥
इत्येवमुक्त्वा सा देवी जले सन्न्यस्य विग्रहम् ।
मनःप्राणांश्च श्रीकृष्णे तस्थौ स्थाणुसमा सती ॥ १०॥
राधाकृतं हरेः स्तोत्रं त्रिसन्ध्यं यः पठेन्नरः ।
हरिभक्तिं च दास्यं च लभेद्राधागतिं ध्रुवम् ॥ ११॥
विपत्तौ यः पठेद्भक्त्या सद्यः सम्पत्तिमाप्नुयात् ।
चिरकालगतं द्रव्यं हृतं नष्टं च लभ्यते ॥ १२॥
बन्धुवृद्धिर्भवेत्तस्य प्रसन्नं मानसं परम् ।
चिन्ताग्रस्तः पठेद्भक्त्या परां निर्वृतिमाप्नुयात् ॥ १३॥
पतिभेदे पुत्रभेदे मित्रभेदे च सङ्कटे ।
मासं भक्त्या यदि पठेत्सद्यः सन्दर्शनं लभेत् ॥ १४॥
भक्त्या कुमारी स्तोत्रं च शृणुयाद्वत्सरं यदि ।
श्रीकृष्णसदृशं कान्तं गुणवन्तं लभेद्ध्रुवम् ॥ १५॥
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे
गोपिकावस्त्रहरणप्रस्तावोनाम सप्तविंशोऽश्याये
राधाकृतं श्रीकृष्णस्तोत्रं सम्पूर्णम् ।
Brahmavaivartapurana Shrikrishnakhanda adhyAya 27, verses 99-113
Proofread by PSA Easwaran