श्रीकृष्णावेण्यष्टकम्
%७३
स्वैनोवृन्दापहृदिह मुदा वारिताशेषखेदा
शीघ्रं मन्दानपि खलु सदा याऽनुगृह्णात्यभेदा ।
कृष्णावेणी सरिदभयदा सच्चिदानन्दकन्दा
पूर्णानन्दामृतसुपददा पातु सा नो यशोदा ॥ १॥
स्वर्निश्रेणिर्या वराभीतिपाणिः
पापश्रेणीहारिणी या पुराणी ।
कृष्णावेणी सिन्धुरव्यात्कमूर्तिः
सा हृद्वाणीसृत्यतीताऽच्छकीर्तिः ॥ २॥
कृष्णासिन्धो दुर्गतानाथबन्धो
मां पङ्काधोराशु कारुण्यसिन्धो ।
उद्धृत्याधो यान्तमन्त्रास्तबन्धो
मायासिन्धोस्तारय त्रातसाधो ॥ ३॥
स्मारं स्मारं तेऽम्ब माहात्म्यमिष्टं
जल्पं जल्पं ते यशो नष्टकष्टम् ।
भ्रामं भ्रामं ते तटे वर्त आर्ये
मज्जं मज्जं तेऽमृते सिन्धुवर्ये ॥ ४॥
श्रीकृष्णे त्वं सर्वपापापहन्त्री
श्रेयोदात्री सर्वतापापहर्त्री ।
भर्त्री स्वेषां पाहि षड्वैरिभीते-
र्मां सद्गीते त्राहि संसारभीतेः ॥ ५॥
कृष्णे साक्षात्कृष्णमूर्तिस्त्वमेव
कृष्णे साक्षात्त्वं परं तत्त्वमेव ।
भावग्राह्रे मे प्रसीदाधिहन्त्रि
त्राहि त्राहि प्राज्ञि मोक्षप्रदात्रि ॥ ६॥
हरिहरदूता यत्र प्रेतोन्नेतुं निजं निजं लोकम् ।
कलहायन्तेऽन्योन्यं सा नो हरतूभयात्मिका शोकम् ॥ ७॥
विभिद्यते प्रत्ययतोऽपि रूपमेकप्रकृत्योर्न हरेर्हरस्य ।
भिदेति या दर्शयितुं गतैक्यं वेण्याऽजतन्वाऽजतनुर्हि कृष्णा ॥ ८॥
इति श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीकृष्णाष्टकम्ं सम्पूर्णम् ।