श्रीकृष्णावेणीपञ्चगङ्गास्तोत्रम्
%७१
शिवा शिवा शिवप्रेष्ठा शिवायास्तु हताशिवा ।
सर्वदा शेरते यस्यां सद्गुणाः सर्वदा हि सा ॥ १॥
नमामि सर्वतोभद्रां सुभद्राश्ययदां नदीम् ।
भद्राय सास्तु मे भद्रा सर्वाभद्रहरा वरा ॥ २॥
स्रोतस्वती भोगवती या सौभाग्यवती सती ।
आभोगतायै सा मेऽस्तु ख्याता भोवतीह वा ॥ ३॥
कलुषाणीह सर्वाणि या कुम्भयति सत्वरम् ।
परशक्त्या स्रवन्ती सा भूयात्कुम्भी शिवाय मे ॥ ४॥
स्रवन्ती सा हतापाया पापहारिसरस्वती ।
पुनातु सा ह्यवाग्वासा पापहन्त्री सरस्वती ॥ ५॥
कृष्णा विष्णुतनुः साक्षान्महापापाहारिणी ।
तारिणी दुर्गसंसारात्सा कृष्णा मुक्तयेऽस्तु नः ॥ ६॥
महेश्वरस्वरूपा या कृष्णया सङ्गता नदी ।
सा वेणी सकलाघघ्नी तापघ्नी मुक्तयेऽस्तु नः ॥ ७॥
कृष्णावेणीपञ्चगङ्गास्तोत्रं सर्वीघहारि यः ।
त्रिसन्ध्यं प्रपठेद्धीमान्स पवित्रो भविष्यति ॥ ८॥
इति श्रीवासुदेवानन्दसरस्वतीविरचितं कृष्णापञ्चगङ्गास्तोत्रं सम्पूर्णम् ।