दक्षप्रोक्ता कालीस्तुतिः
मार्कण्डेय उवाच -
सिंहस्थां कालिकां कृष्णां पीनोत्तुङ्गपयोधराम् ।
चतुर्भुजां चारुवक्त्रां नीलोत्पलधरां शुभाम् ॥ ९॥
वरदाभयदां खड्गहस्तां सर्वगुणान्विताम् ।
आरक्तनयनां चारुमुक्तकेशीं मनोहराम् ॥ १०॥
दृष्ट्वा दक्षोऽथ तुष्टाव महामायां प्रजापतिः ।
प्रीत्या परमया युक्तो विनयानतकन्धरः ॥ ११॥
दक्ष उवाच -
आनन्दरूपिणीं देवीं जगदानन्दकारिणीम् ।
सृष्टिस्थित्यन्तरूपां तां स्तौमि लक्ष्मीं हरेः शुभाम् ॥ १२॥
सत्त्वोद्रेकप्रकाशेन यज्ज्योतिस्तत्त्वमुत्तमम् ।
स्वप्रकाशं जगद्धाम तत्तवांशं महेश्वरि ॥ १३॥
रजोगुणातिरेकेण यत्कामस्य प्रकाशनम् ।
रागस्वरूपं मध्यस्थं तत्तेंऽशांशं जगन्मयि ॥ १४॥
तमोगुणातिरेकेण यद्यन्मोहप्रकाशनम् ।
आच्छादनं चेतनानां तत्ते चांशांशगोचरम् ॥ १५॥
परा परात्मिका शुद्धा निर्मला लोकमोहिनी ।
त्वं त्रिरूपा त्रयी कीर्तिर्वार्त्तास्य जगतो गतिः ॥ १६॥
बिभर्ति माधवो धात्रीं यथा मूर्त्त्या निजोत्थया ।
सा मूर्त्तिस्तव सर्वेषां जगतामुपकारिणी ॥ १७॥
महानुभावा त्वं विश्वशक्तिः सूक्ष्मापराजिता ।
यदूर्ध्वाधोनिरोधेन व्यज्यते पवनैः परम् ॥ १८॥
तज्ज्योतिस्तव मात्रार्थे सात्त्विकं भावसम्मतम् ।
यद्योगिनो निरालम्बं निष्फलं निर्मलं परम् ॥ १९॥
आलम्बयन्ति तत्तत्त्वं त्वदन्तर्गोचरन्तु तत् ।
या प्रसिद्धा च कूटस्था सुप्रसिद्धातिनिर्मला ॥ २०॥
सा ज्ञप्तिस्त्वन्निष्प्रपञ्चा प्रपञ्चापि प्रकाशिका ।
त्वं विद्या त्वमविद्या च त्वमालम्बा निराश्रया ।
प्रपञ्चरूपा जगतामादिशक्तिस्त्वमीश्वरी ॥ २१॥
ब्रह्मकण्ठालया शुद्धा वाग्वाणी या प्रगीयते ।
वेदप्रकाशनपरा सा त्वं विश्वप्रकाशिनी ॥ २२॥
त्वमग्निस्त्वं तथा स्वाहा त्वं स्वधा पितृभिः सह ।
त्वं नभस्त्वं कालरूपा त्वं काष्ठा त्वं बहिःस्थिता ॥ २६॥
त्वमचिन्त्या त्वमव्यक्ता तथानिर्देश्यरूपिणी ।
त्वं कालरात्रिस्त्वं शान्ता त्वमेव प्रकृतिः परा ॥ २४॥
यस्याः संसारलोकानां परित्राणाय यद्बहिः ।
रूपं जानन्ति धात्राद्यास्तत्त्वां ज्ञास्यन्ति के पराम् ॥ २५॥
प्रसीद भगवत्यम्ब प्रसीद योगरूपिणि ।
प्रसीद घोररूपे त्वं जगन्मयि नमोऽस्तु ते ॥ २६॥
इति कालिकापुराणे अष्टमाध्यायान्तर्गता दक्षप्रोक्ता कालीस्तुतिः समाप्ता ।
Proofread by PSA Easwaran