श्रीकालीध्यानम्
सद्यश्छिन्नशिरःकृपाणमभयं हस्तैर्वरं बिभ्रतीं
घोरास्यां शिरसां स्रजा सुरुचिरामुन्मुक्तकेशावलीम् ।
सृक्कासृत्प्रवहां श्मशाननिलयां श्रुत्योः शवालङ्कृतिं
श्यामाङ्गीं कृतमेखलां शवकरैर्देवीं भजे कालिकाम् ॥ १॥
शिवारूढां महाभीमां घोरदंष्ट्रां हसन्मुखीम् ।
चतुर्भुजां खड्गमुण्डवराभयकरांशिवाम् ॥ २॥
मुण्डमालाधरां देवीं ललज्जिह्वां दिगम्बराम् ।
सदा सञ्चिन्तये कालीं श्मशानालयवासिनीम् ॥ ३॥
नमामि दक्षिणामूर्तिं कालिकां परभैरवीम् ।
भिन्नाञ्जनचयप्रख्यां प्रवीरशवसंस्थिताम् ॥ ४॥
गलच्छोणितधाराभिः स्मेराननसरोरुहाम् ।
पीनोन्नतकुचद्वन्द्वां पीनवक्षोनितम्बिनीम् ॥ ५॥
दक्षिणां मुक्तकेशालीं दिगम्बरविनोदिनीम् ।
महाकालशवाविष्टां स्मेराम्बरपरिस्थिताम् ॥ ६॥
मुखसान्द्रस्मितामोदमोदिनीं मदविह्वलाम् ।
आरक्तमुखसान्द्राभिः नेत्रालीभिर्विराजिताम् ॥ ७॥
शवद्वयकृतोत्तंसांसिन्दूरतिलकोज्ज्वलाम् ।
पञ्चाशन्मुण्डघटितमालाशोणितलोहिताम् ॥ ८॥
नानामणिविशोभाढ्यनानालङ्कारशोभिताम् ।
शवास्थिकृतकेयूरशङ्खकङ्कणमण्डिताम् ॥ ९॥
शववक्षःसमारूढां लेलिहानां शवं क्वचित् ।
शवमांसकृतग्रासां साट्टहासं मुहुर्मुहुः ॥ १०॥
खड्गमुण्डधरां वामे सव्येऽभयवरप्रदाम् ।
दन्तुरां च महारौद्रीं चण्डनादातिभीषणाम् ॥ ११॥
शिवाभिर्घोररूपाभिर्वेष्टितां भयनाशिनीम् ।
``माभैर्माभैः'' स्वभक्तेषु जल्पन्तीं घोरनिःस्वनैः ॥ १२॥
यूयं किमिच्छत ब्रूत ददामीति प्रभाषिणीम् ।
ध्यायामि तां महाकालीं सर्वोपद्रववारिणीम् ॥ १३॥
इति श्रीकालीध्यानं सपूर्णम् ॥
Proofread by PSA Easwaran psaeaswaran at gmail.com