श्रीजिनवाक्स्तुतिः
श्रीमदर्हद्वाण्यै नमः ।
सर्वज्ञवाणी जयतात्सर्वभाषामयी शुभा ।
पञ्चत्रिंशद्रुणोपेता मनुपूर्वस्वरूपिणी ॥ १॥
दयामय्यमृतमयी वाग्देवी श्रुतदेवता ।
संसृष्टिविगमभ्रौव्यदर्शिका भुवनेश्वरी ॥ २॥
ब्रह्मबीजध्वनिमयी श्रीमती वागभवात्मिका ।
ज्ञानदर्शनचारित्ररत्नत्रितययदायिका ॥ ३॥
अर्हद्वकक्त्राब्जसम्भूता भव्यकैरवचन्दिका !
नयप्रमाणगम्भीरा नवतत्वमान्विता ॥ ४॥
वाग्वादिनी भगवत्ती कुमतिध्वंसकारिणी ।
स्याद्वादिहृदयाम्भोजस्थायिनी मातृकामयी ॥ ५॥
नित्या सरस्वती सत्या ज्योतीरूपा जगद्धिता !
वागीश्वरी सिद्धिदात्री सिद्धबीजमयी परा ॥ ६॥
परमैश्वर्यसहिता गणभृद्गुम्फिता श्रुते ।
सिद्धान्तार्थप्रदाऽचिन्त्याऽनन्तशक्तिश्र सारदा ॥ ७॥
स्याद्वादवादिनी श्रेष्ठा तारिणी भववारिधेः ।
या हृज्जाड्यान्धक्यरस्य हरणे तरणिप्रभा ॥ ८॥ (अष्टभिः कुलकम् ॥)
सा मद्वक्त्रे निवसताज्ज्ञानानन्दप्रदायिनी ।
नमस्या मामकी तस्यै बोभवीतु मुहुर्मुहुः ॥ ९॥
॥ इति श्रीजिनवाक्स्तुतिः समाप्ता ॥
श्री प्रवचनदेव्यै नमः । णमो बम्भीए लिवीए ।
णमो सुयदेवयाए भगवईए ।
णमो सुयस्स भगवओ । श्री ज्योतिर्मायाभ्यां नमः ।
स्वामिनि ! शासनदेवते ! मत्सान्निध्यं विधेहि विश्वेशी ।
प्रवचनबोधो भगवति ! दयया भक्ताय दातव्यः ॥ १॥
श्रीमदर्हन्मातृकाभ्यो नमः ॥ श्री जिनशासनदेवताभ्यो नमः ॥
श्री प्रवचनमातृभ्यो नमः ।
Encoded and proofread by DPD