श्रीशारदास्तवनम्
जय शारदे वागीश्वरि विधिकन्यके विद्याधरि ॥ ध्रू०॥
ज्योत्स्नेव ते कान्तिस्तथा शरदिन्दुरिव रम्यं मुखम्
हासेन ते च हि उज्वला भान्ती चतुर्युगपूर्णिमा
भव मस्तके नः सर्वदा ज्योत्स्नाकृपावर्षाकरी ॥ १॥
वीणां यदा हि कलामयी स्पृशतीह ते चतुराङ्गुली
गीतं नवीनं जायते जाड्यं मतेरपि भज्यते
उन्मेषिते कल्पद्रुमे त्वं मञ्जरीपुष्पम्भरी ॥ २॥
त्वामाश्रिता विद्याकलाः शास्त्र तथा च हि संस्कृतिः
साध्रोषि ते संस्पर्शनाद् हे देवते रुचिराकृतीः
लावण्यमपि ते भासते विश्वे विशेष भास्करि ॥ ३॥
मूलं मराठीगीतम् - जय शारदे वागीश्वरि
कवयित्री - शान्ता शेळके
सङ्गीतकारः - श्रीधर फडके
संस्कृतानुवादकः -
राजेन्द्र दातार, बदलापूर
दूरभाषाङ्कः - ९४२१६२६८१४
गायिका - सरिता भावे
Encoded and proofread by Ganesh Kandu kanduganesh at gmail.com