जय दुर्गे ! शिवदे ! (नीराजनम्)
ॐ जय दुर्गे ! शिवदे !, जय जय दुर्गे शिवदे !
दुर्गति-हारिणि ! मातः !, तव चरणे प्रणिपातः,
हे शुभदे ! वरदे !, (तव) पद-पद्मे वन्दे ॥
ॐ जय दुर्गे ! शिवदे !, जय जय दुर्गे शिवदे ! ॥ (ध्रुवम्)॥
केशरि-वाहिनि ! गौरी, त्वं गिरिराज-सुता । (अयि !)
आद्या शक्तिः सुभगा, सुर-नरवृन्द-नुता ॥ १॥
दुष्ट-विदारण-रुद्रा, त्वं त्रिभुवन-धात्री । (अयि !)
महिष-विमर्दिनि ! देवी, जगतां परिपात्री ॥ २॥
मङ्गलमयि ! मातस्त्वं, गङ्गाधर-कान्ता । (अयि !)
दिव्याभरणै-र्भव्या, प्रेममयी शान्ता ॥ ३॥
दुरितं हर जननी मे, कुरु सुदयां प्रति माम् । (अयि !)
हैमवतीं नौमि त्वां, स्नेहमयीं प्रतिमाम् ॥ ४॥
स्वस्तिमयं तव हस्ते, शूलं विकरालम् । (अयि !)
शङ्करि ! सकलातङ्कं, हर सङ्कटजालम् ॥ ५॥
तव शुभ-दिव्यं ज्योतिः, उज्ज्वलयतु भुवनम् । (अयि !)
सुन्दरयतु परिवेशं, सुखयतु विश्वजनम् ॥ ६॥
तव करुणामृत-धारा, शमयतु गुरु-तापम् । (अयि !)
शीतलयतु संसारं, हृत्वा कलि-पापम् ॥ ७॥
भवभय-नाशिनि ! भीमां, परमानन्द-भराम् । (अयि !)
त्वां भगवतीं नतोऽहं, सौम्यां भक्तिपराम् ॥ ८॥
मार्जय सकलं दोषं, कुरु मां कृतकृत्यम् । (अयि !)
मातस्तवार्च्चनेयं, शं वितरतु नित्यम् ॥ ९॥
-- रचयिता : डाॅ हरेकृष्ण-मेहेरः
Copyright Dr.Harekrishna Meher