श्रीजगदम्बास्तुतिः २
भज जगदम्बां भज जगदम्बां
जगदम्बां भज मूढमते ।
प्राप्ते काले न हि न हि रक्षति
वित्तं मित्रं पुत्रो जाया ॥ १॥ भज जगदम्बां
भववाञ्छां त्यज कुरु गुरुसेवां
विनयावनतः प्रतिदिनमपि भोः ।
भरताग्रजवद्भज पितृभक्तिं
तर भवसागरमाशु सुबुद्धे ॥ २॥ भज जगदम्बां
शमदमसाधनसम्पद्युक्तो
नित्यानित्यविचारयुतश्च ।
विषयेष्वखिलेष्वाशारहितो
भव मोक्षेच्छाभाजनमपि भोः ॥ ३॥ भज जगदम्बां
श्रोत्रियमेनो८न्धविहीनं
बहुदूरीकृतरागद्वेषम् ।
ब्रह्मणि निष्ठितहृदयाम्भोजं
भज गुरुवर्यं करुणासिन्धुम् ॥ ४॥ भज जगदम्बां
आसाद्येत्थं गुरुवरमेनं
पृच्छ प्रश्नं विनमन्मूर्तिः ।
संसाराब्धिं दुस्तरमारा-
द्गुरुवर्य कथं प्रतरेयमिति ॥ ५॥ भज जगदम्बां
इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचिता श्रीजगदम्बास्तुतिः समाप्ता ।
Proofread by PSA Easwaran psaeaswaran at gmail.com