जगदम्बार्तिक्यम्
सर्वस्य स्वमसि मता सद्विदुषामाद्या
श्रुतिभिः स्मृतिमिः शास्त्रैः कविभिः प्रतिपाद्या
गायन्ति त्वच्चरितं निपुणा वृतवाद्याः
सा का त्वत्तोऽन्यावति नाम्ना पापाद्या
जय देवि प्रणमदखिलवरवितरणदक्षे
जय जगदम्ब समुद्धृतशरणागतलक्षे । ध्रुव०॥ १॥
मातर्जगदुत्पत्तिस्थितिसंहृतिलीले
संश्रितजनकल्मषवनकल्पदहनकीले
सर्वत्र सदा सादरनतलालनशीले
स्वविमलगुणगणरञ्जितविधिशिवधननीले । जय देवि ०॥ २॥
तव सेवाऽर्थिजनानां चिन्तामणिशाला
भक्तमयूराणां ते स्मृतिरम्बुदमाला
त्वां स्तोतुं त्वत्पुरतो गीरपि खलु बाला
का तत्रान्यकविकथा क्व सुधा क्व च (१)हाला? । जय देवि०॥ ३॥
इति श्रीरामनन्दनमयूरेश्वरकृतं जगदम्बार्तिक्यं सम्पूर्णम् ।
१। हालासुरा ।
Proofread by Rajesh Thyagarajan