श्रीजानकीद्वादशनामावलिः
ॐ अस्य श्रीजानकीद्वादशनामस्तोत्रमन्त्रस्य नारदऋषिः
अनुष्टुप् छन्दः त्रिगुणात्मिक शक्तिः श्रीजानकी
देवता श्रीसीताप्रीत्यर्थे स्तोत्रस्य उद्धृता नामजपे विनियोगः ॥
अथ ध्यानम्-
ध्यायेच्चम्पकगौङ्गीं हेमाभां नीलवस्त्रकाम् ।
दिव्यकल्पोज्वलाङ्गी च रामवामस्थितां मुदा ।
रत्नसिंहासनगतां सर्वाभरणभूषिताम् ॥
सर्वालङ्कारसंयुक्तवीणावादनतत्पराम् ।
ध्यायेत् सीतां हृदिगतां दिव्यस्त्रीगणसेविताम् ॥
अथ नामावलिः ।
ॐ जनकनन्दिन्यै नमः ।
ॐ अजादिदेववन्दिन्यै नमः ।
ॐ सदासुसन्तरञ्जिन्यै नमः ।
ॐ पिशाचगर्वगञ्जिन्यै नमः ।
ॐ मुनीन्द्रवासरागिण्यै नमः ।
ॐ श्रीरामवामभागिन्यै नमः ।
ॐ सुबुद्धिदाप्रमोदिन्यै नमः ।
ॐ श्रीकोशलाविनोदिन्यै नमः ।
ॐ गुणादिवेदगायिन्यै नमः ।
ॐ सुभक्तसुखदायिन्यै नमः ।
ॐ अनन्तदुःखमोचिन्यै नमः ।
ॐ विश्वलोचन्यै नमः ।
इति श्रीजानकी द्वादशनामावलिः सम्पूर्णा ॥
Proofread by Prabhav Tengse