गुरुगङ्गाष्टकम्
श्रीगणेशाय नमः ।
मातर्नन्दिकतीर्थसुन्दरभवे शैवैरुपास्ये शिवे
निःशेषाघनिवारिणि त्वमुदिरे सौन्दर्यरत्नाकरे ।
देवानीकसुसेविते सुखकरे संसारतापापहे
दीनं सुज्ञजनालिसेवितपदे त्वं मां पवित्रं कुरु ॥ १॥
रोगार्दितं संसृतितापतप्तं षट्कर्महीनं त्वघसम्प्लुतं माम् ।
न चापगान्या भुवने त्वदन्या नाघं प्रकर्तुं जननी च तां गतम् ॥ २॥
जगज्जननि त्वद्यशो भुवि महत्समुद्यत्सदा
जनावलि-पवित्रतां प्रकुरुतेऽत्र बिन्दुस्तव ।
इति श्रवणतो मतिर्मम तवाम्बुसंसेवने
पवित्रमकरोषि चेज्जननि तां कथं ते सुते ॥ ३॥
त्वदम्बुसेवनात्सदा निराकुला भविन्त ते
खगा मृगाः सुरर्षयो नरोत्तमाः सुरासुराः ।
सुभक्तियुक्तचेतसा नरस्त्वदम्बुसेवनं
करोति यः स याति धाम वैष्णवं सुरार्थितम् ॥ ४॥
असवो यदि यान्ति त्वत्तटे स नरो धन्यतया दिवं प्रयाति ।
हरिनाम इवात्र त्वत्तटं न विमुञ्चन्ति कदापि मानवाः ॥ ५॥
तव तीरनिवासवर्जिता न जनिर्जगतीतले मता सा ।
न यथा हरिनामवर्जिता रसनाया विषवल्लरी मता सा ॥ ६॥
विरजागुरुगङ्गे मे सितासिते यत्र सङ्गते तत्र ।
यः प्लावयति शरीरं स याति भक्त्या सुमाणिकं धाम ॥ ७॥
त्वद्दर्शनात्त्वत्स्मरणात्तवाम्बुसंसेवनान्माणिकपादसम्भवे ।
यत्सौकृतं तत्कथने न शक्त्या ब्रह्मादयस्तत्र कियानहं नरः ॥ ८॥
गुरुगङ्गाष्टकमिदं पठतां सर्वसिद्धिदम् ।
पठितव्यं सर्वकाले शयने च विशेषतः ॥ ९॥
इति गुरुगङ्गाष्टकं सम्पूर्णम् ।
Encoded and proofread by Anil Kumar Pandey anil.kumar17pandey at gmail.com