गोस्तवनम्
अवतारो गवां श्रेष्ठः सर्वेषु भुवि जन्तुषु ।
यतस्तासां विकारोऽपि ह्युपकाराय जायते ॥ १॥
गच्छन्त्यः संस्थिताः सुप्ताः शकृन्मूत्रकृतोऽपि वा ।
गावः पुनन्ति लोकांस्त्रीनतो देवत्वमागताः ॥ २॥
शुभ्राः पीतास्तथा श्यामाश्चित्रा वै लोहितास्तथा ।
कुर्वते नृहृदि स्थानं गावः प्रकृतिशोभनाः ॥ ३॥
लोकेऽमृतं यथा क्षीरं गोमयं पावनं परम् ।
आयुर्घृतं तथा चैव मूत्रं रोगविनाशनम् ॥ ४॥
अपूर्वं पञ्चगव्यं च तीर्थं कल्मषनाशनम् ।
एषा परम्परा भव्या दुर्लभा सुरभिं विना ॥ ५॥
प्रत्यक्ष देवता गावो गावो वै लोकमातरः ।
तस्मादर्च्यतमा एता रक्षणीयाः प्रयत्नतः ॥ ६॥
गोदानं च परं दानं गोधनं च परं धनम् ।
गोभक्तिः परमा सिद्धिर्गोसेवा परमा गतिः ॥ ७॥
गावो यत्र हि पूज्यन्ते पाल्यन्ते चैव यत्नतः ।
गोपालो भगवांस्तत्र मुदा वसति नित्यशः ॥ ८॥
गावो मे पुरतः सन्तु गावो मे सन्तु पृष्ठतः ।
गावो मे सर्वतः सन्तु गवां मध्ये वसान्यहम् ॥ ९॥
गां विना न हि मे शान्तिर्भवेदिह परत्र च ।
इति सञ्चिन्त्य भगवान् गोलोकमधितिष्ठति ॥ १०॥
अस्ति गोसदृशं नैव त्रिषु लोकेषु किञ्चन ।
यद्वशे भगवान् विष्णुः पश्चाद्धावति नित्यशः ॥ ११॥
गोमातस्त्वं हि धन्यासि धन्यं च तव जीवनम् ।
धन्याश्च ते नरा लोके त्वत्सेवाव्रतिनश्च ये ॥ १२॥
इति गोस्तवनं सम्पूर्णम् ।
(रचयिता -- पं. श्रीगौरीशङ्करजी द्विवेदी, साहित्यरत्न)
Encoded and proofread by Charu Champaka