देवगणैः कृता गिरिजास्तुतिः
गिरिराजकुमारिके शिवे चरणं ते कमलामलं कथम् ।
न निरीक्षितमादरेण तत् निगमैरप्यवधारितं न हि ॥ १॥
अधुना चरणाम्बुजं शिवे यदि ते दृष्टिपथं प्रयास्यति ।
कथमप्यघकोटिनाशकं सकलाभीष्टदमप्यसंशयम् ॥ २॥
न विमानमणिप्रभागणैः कथमप्यादरतोऽपि सर्वथा ।
नयनैर्न निरीक्षितं ततः कथमस्माकमुमे मतिर्भवेत् ॥ ३॥
शफरीचटुलोलदृष्टिभिः कथमप्यम्ब विलोकयाशु नः ।
यदि ते करुणारसालयः सुवर्गोऽप्यपवर्गसाधनम् ॥ ४॥
अतिदीनदयालुता शिवे त्वयि वेदैरपि निश्चिता ततः ।
अतिदीनगणेषु वाऽसुरान् गणयित्वा जगदम्ब पाहि नः ॥ ५॥
किमशक्यमिहाम्ब ते शिवे नहि दीनोच्चवचः श्रुतं च किम् ।
अतिदूरविलोकनेऽपि ते श्रम एवेति विशेषतो मितम् ॥ ६॥
निकटस्थितभक्तपालनं करुणावीक्षणदृष्टिभिः शिवे ।
कथमप्यनुवारम्बिके न हि ते कोऽपि तथा भवेच्छ्रमः ॥ ७॥
अधुना यदि गम्यते त्वया त्रिदशाधीश्वरशङ्करालयः ।
निलयः सुखसागरस्य ते पुनरप्यागमनं कथं भवेत् ॥ ८॥
न वयं गिरिराजकन्यके करुणापात्रमिति प्रमाऽपि ते ।
पतितानपि पावयस्युमे पतितेष्वेव सुरान् विलोकय ॥ ९॥
तव दृष्टिरदृष्टतो भवेदिति निर्णीतमतिप्रयत्नतः ।
तपसाऽपि न तस्य साधनं भवतीति प्रमितं प्रमातृभिः ॥ १०॥
किमहो न दया गिरीन्द्रजे दयनीयाः कति ते जगत्त्रये ।
नहि तेषु सुराः पतन्ति वा दुरदृष्टं किमिहामरेष्वपि ॥ ११॥
शिवपूजनसाधिता पुरा सुरता सा न कथं मता तव ।
शिवपूजकभक्तिरस्तु ते त्वमुमे शङ्करतत्परा खलु ॥ १२॥
तव यद्यपि शङ्करे रतिः त्वरया गन्तुमुमार्धविग्रहः ।
कथमद्य भविष्यतीति सा गिरिजे नैव हि विघ्निता भवेत् ॥ १३॥
अतिदीनसुरानुपालने न च विघ्नोऽपि पथि प्रियादरे ।
परमापदगाधसागरे पतितानुद्धर सादरं सुरान् ॥ १४॥
यदि गौरि भवेदुपेक्षया गमनं ते हरमन्दिरं प्रति ।
स शिवोऽपि कथं न पृच्छति त्रिदशाः किं न विलोकिता इति ॥ १५॥
गमनप्रतिबन्धकं च किं क्षणमात्रानवलोकनेऽपि ते ।
अतिदुःखमहाब्धिमालया वलिता एव सुराः शिवेन किम् ॥ १६॥
तव दर्शनमात्रतः शिवे दुरिताब्धिः प्रलयं प्रयास्यति ।
सुखसागरपङ्क्तिरादरात् अनुयात्येव शिवार्चकालयम् ॥ १७॥
गिरिजे स वदान्यतामगात् चरणस्तेन च तन्निरीक्षणम् ।
अधुना सुखसाधनं शिवे न तवायासलवोऽपि सर्वथा ॥ १८॥
तव कल्पतरुर्न वाम्बिके न च चिन्तामणिरद्रिकन्यके ।
सुरधेनुरियं परं त्वहो चरणः कोऽपि सुधाघनो धनः ॥ १९॥
स सुधाघनतामुपागतः चरणस्ते सुररूपपादपान् ।
अभिषिञ्चतु दुःखपावकप्रतितप्तानधुना मुहुर्मुहूः ॥ २०॥
क्व सुधाघनता क्व धीरता सुरचित्ताम्बुजपूजनार्हता ।
क्व सुरानवलोकनादरः चरणस्यास्य तवाम्ब शाम्भवि ॥ २१॥ (चरणस्यास्येति पूर्वार्धेऽन्वेति नोत्तरार्धे)
करुणाब्धितरङ्गमालया ललितं ते नयनाम्बुजं शिवे ।
तदिदं सुरवृन्दमन्दिरे प्रसरत्वाशु सुखाम्बुधिप्रदम् ॥ २२॥
गिरिजानयनावलोकनं सुरनारीसमपेक्षितं क्षणम् ।
कमलाप्यनुवेलमम्बिका चरणाम्भोजरजःप्रसादजा ॥ २३॥
कमला कमलैरलं बलिं गिरिजापादुकपूजनप्रिया ।
पुरतः पुरतः प्रसर्पति प्रवहन्ती गिरिजे विलोकय ॥ २४॥
किमतः परमस्ति वाञ्छित गिरिजापादुकदर्शनं विना ।
तदनन्तसुखप्रदं शिवे त्रिदशानामपि दुर्दशापहम् ॥ २५॥
क्व चतुर्दशलोकनाथता क्व कृपासागरता दयार्द्रता ।
क्व निरन्तरदीनबन्धुता क्व तवाद्याप्यकृपा सुरेष्वपि ॥ २६॥
(क्व वदान्यवदान्यमान्यता क्व दयातुङ्गतरङ्गलोलता ।
क्व शिवाचकमातृता शिवे क्व तवाद्यान्यकृपा सुरेष्वपि ॥)
मनुजेष्वपि ते दया शिवे गुरुसंसाररतेष्वनुक्षणम् ।
न वयं तदपेक्षया क्षताः क्षणमप्यम्ब विलोकयाशु नः ॥ २७॥
यदि ते चरणारविन्दयोः प्रभयाऽपि प्रभुभूतयाऽनयो ।
न वयं परितो विभूषिताः कथमस्माकमपीह जीवनम् ॥ २८॥
अमरानव शङ्करप्रिये करुणापात्रमिति स्मरामरान् ।
शरणं तव पादपङ्कजं न तदन्यच्छरणं सुरप्रियम् ॥ २९॥
वयमेवमुमार्धविग्रहं गिरिजामप्यभयाय सर्वदा ।
शरणं शरणाय कुर्महे शरणं नान्यदपेक्षित खलु ॥ ३०॥
अनुवारमुमाहरौ परं प्रणताः स्मः स्मरणैरनुक्षणम् ।
गतकल्मषराशयः पुनः प्रणताः स्मः प्रणताः पुनः पुनः ॥ ३१॥
यदि दैवतदैवतं प्रभुं भवमम्बां भवभारभीरवः ।
न वयं प्रणताः पुनः पुनः न कृतान्तोऽपि किमत्र नृत्यति ॥ ३२॥
अमिता प्रभुता तवाम्बिके तव या सैव महेश्वरेऽपि सा ।
न तदन्यगता ततः क्व वा शरणं नः शरणार्थिनामपि ॥ ३३॥
न महाप्रभुसेवकाः परं भवदुःखं न भवं प्रपेदिरे ।
न मृगेन्द्रगृहेषु कीकसाः करिमुक्ताफलमन्थरेष्वपि ॥ ३४॥
यदि ते चरणारविन्दयोः प्रसवः कोऽपि समर्पितस्तदा ।
अधमोऽपि नरो जगत्पतिः भवतीत्येव वदन्ति साधवः ॥ ३५॥
अमरानतिदीनवत्सले क्षणमप्यम्ब विलोकयादरात् ।
करुणारससारधारया दरसंसारदवातुरानुमे ॥ ३६॥
यदि ते न विलोकनं तदा सुरतायामपि नादरोऽस्ति नः ।
न तया फलमस्ति किं तया गिरिजे वन्ध्यतनुस्वरूपया ॥ ३७॥
तव वा किमुपेक्षया फलं प्रविलापोऽपि न नः श्रुतस्त्वया ।
अयि मातरुमे किमास्तिकेष्वदयाकारणमस्ति शाम्भवि ॥ ३८॥
शिव एव दयानिधिः शिवे तव तावत्कठिनं मनो यतः ।
अधुनाऽपि न दीनवीक्षणं क्रियते सादरमम्बुजानने ॥ ३९॥
सुतमप्यपराधसङ्ककुलं जननी पालयतीति न श्रुतम् ।
किसुमे वद पातकानि नः तव नामस्मरणेऽप्यनुक्षणम् ॥ ४०॥
बहुतूलगिरिप्रदाहको दवलेशो न शिवे तथैनसाम् ।
कुलमाशु विनाशमेत्यहो शिवनामस्मरणाग्निलेशतः ॥ ४१॥
यदि पापविनाशसाधनं शिवनामस्मरणं न शैलजे ।
वद तर्हि किमस्ति साधनं वद सत्यं वद तद्विमर्शतः ॥ ४२॥
निगमेष्वघनाशसाधनं शिवनामस्मरणं परं श्रुतम् ।
तदिदं न कथं विनाशकं त्रिविधाघौघकुलस्य शैलजे ॥ ४३॥
सितभूतिविभूषणः शिवं यदि तावत्प्रणतः स्मरन् मुदा ।
प्रपतन्ति महाघकोटयः पुनरुत्थानविवर्जिताः परम् ॥ ४४॥
वयमीश्वरलिङ्गपूजकाः क्व महापातकमीतिरद्रिजे ।
न महानलसन्निधिं गतो हिमभीतः पतितः प्रधावति ॥ ४५॥
क्षुधितोप्यमृताशनः पुमान् तृषितोऽपीति यथा तथा शिवे ।
शिवलिङ्गसमर्चनप्रियः न च दुःखाम्बुनिधि प्रयास्यति ॥ ४६॥
न च शङ्करपूजकार्चकोऽप्यघलेशाश्रयतामुपैत्यतः ।
अघसंशयवार्तयाऽपि वा न वयं शैलसुते समावृताः ॥ ४७॥
कृपया परया शिवप्रिये त्वरया पश्य दयासुधाकरान् ।
कुरु कापि न तावता क्षतिः न सुधारश्मिसमानता तव ॥ ४८॥
गिरिजे न चकोररक्षकः क्षणदानायक इत्यपि श्रुतः ।
न हि तेन समेधितस्तथा कृपया पश्य सुरान् शिवप्रिये ॥ ४९॥
किमनाथसनाथतां त्वया गिरिजे कर्तुमनुद्यमः कृतः ।
किमनेन फलं फलार्थिनां किमयं धर्म इति श्रुतस्त्वया ॥ ५०॥
न भवत्कृपया विना गतिः यदि गत्यन्तरमस्ति नः सदा ।
तव मास्तु निरीक्षणं ततो गतिहीनानमरानवाम्बिके ॥ ५१॥
अस्माकं शरणागतामरशिरःकोटीरहीरप्रभा-
पारावारतरङ्गसङ्गतशिवाकान्ताङ्घ्रिपङ्केरुहे ।
पद्मायल्लकमल्लचञ्चलतले श्रीचन्दनापादुके
दुष्टानिष्टनिवारके शरणमित्यन्यं न मन्यामहे ॥ ५२॥
॥ इति शिवरहस्यान्तर्गते देवगणैः कृता गिरिजास्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः ६। ५-५६ ॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 6. 5-56 ..
Proofread by Ruma Dewan