कुमारविरचितं गौरीस्तवः
सा गौरी सुखराशिरेव सुकृतश्रेणीसुधासागरः
सौन्दर्यद्रववाहिनी च सततं सा वाहिनी सम्पदाम् ।
आपद्राशिविनाशिनी खलु महापापाशनैः सा शनैः
एतन्मे शयनं समेत्य शमुमा मह्यं प्रदास्यत्यपि ॥ १॥
गौरी शारदपूर्णचन्द्रवदना दृष्टाऽप्यटैर्मुहुः
कष्टं दुष्टमपाकरिष्यति मुहुः स्पृष्टा मुखाम्भोनिधिम् । (दुःखं)
सृष्ट्वा सृष्टिविचक्षणा खलु मुहुर्दृष्टिप्रवृष्टिं परां
स्रष्टुर्दृष्टिविशेष योषित तनुं कुर्याददृष्टान्वितम् ॥ २॥ (पोषित)
भाग्यैर्भूरितपःप्रभावभवनैः सम्भावनीयान् मुहुः
भक्ताभीष्टफलप्रदाननिपुणा साऽतिप्रवीणा क्षणम् ।
ध्याताऽपि क्षणदा प्रतिक्षणमतिश्लक्ष्णं भवानी कदा
द्रष्टव्या नयनश्रमापहरणं कर्तव्यमत्यादरैः ॥ ३॥
धन्यानां भवनेषु सा गिरिसुता विन्यस्य पादाम्बुजं
स्थित्वा सा क्षणमात्रमादरयुता तद्द्वारपालाङ्गणे ।
इच्छन्ती कमलाविलासमसकृत् तद्द्वारपालाङ्गणे-
प्यालस्थेन विना रमाविहरणं सा कर्तुमन्विच्छति ॥ ४॥
देवानामपि वन्द्य एव सततं यत्पादुकाराधकः
तत्पादाम्बुरुहं स्मरन्ति सुकृतैः कान्तैरनन्तैरपि ।
तन्मात्रस्मरणेन सुन्दरतरे सापीन्दिरामन्दिरे
तत्सेवानिरता कदापि विरता श्रान्ता न सञ्जायते ॥ ५॥
जातश्चेज्जननीमनोज्ञजठरे गौरीपदाम्भोरुहं
स्मृत्वा भूपतितामुपेत्य बहुधा भुक्त्वाऽपि भोगान् बहून् ।
कुर्वन् शाम्भवपालनं बहुधनैः कुर्वन् शिवाराधनं
काशीं प्राप्य विमुच्यते मुनिवराराध्यामसाध्यामपि ॥ ६॥
दृष्टा चेद्गिरिराजराजतनया नेत्रोत्सवो जायते
सर्वाङ्गं पुलकाञ्चितं च न मनः किं तत् प्रसन्नं मम ।
नित्यानन्दसुधाप्रसारलहरीकल्लोलमालाकुलः
कालं किं न नयामि कालकलना सा कालकालस्य मे ॥ ७॥
॥ इति शिवरहस्यान्तर्गते कुमारविरचितं गौरीस्तवः सम्पूर्णः ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः १३। ६०-६६॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 13. 60-66..
Proofread by Ruma Dewan