गर्भरक्षाम्बिकास्तोत्रम्
श्रीमाधवी-काननस्थे गर्भरक्षाम्बिके पाहि भक्तं स्तुवन्तम् ॥
वापीतटे वामभागे वामदेवस्य देवस्य देवी स्थिता त्वम् ।
मान्या वरेण्या वदान्या पाहि गर्भस्थजन्तून् तथा भक्तलोकान् ।
श्रीमाधवी-काननस्थे गर्भरक्षाम्बिके पाहि भक्तं स्तुवन्तम् ॥ १॥
श्रीगर्भरक्षापुरे या दिव्यसौन्दर्य-युक्ता सुमाङ्गल्यगात्री ।
धात्री जनित्री जनानां दिव्यरूपां दयार्द्रां मनोज्ञां भजे त्वाम् ।
श्रीमाधवी-काननस्थे गर्भरक्षाम्बिके पाहि भक्तं स्तुवन्तम् ॥ २॥
आषाढमासे सुपुण्ये शुक्रवारे सुगन्धेन गन्धेन लिप्ता ।
दिव्याम्बराकल्पवेषा वाजपेयादि-यागस्थ-भक्तैः सुदृष्टा ।
श्रीमाधवी-काननस्थे गर्भरक्षाम्बिके पाहि भक्तं स्तुवन्तम् ॥ ३॥
कल्याणदात्रीं नमस्ये वेदिकाख्य-स्त्रिया गर्भरक्षाकरीं त्वाम् ।
बालैस्सदा सेविताङ्घ्रिं गर्भरक्षार्थमारादुपेतैरुपेताम् ।
श्रीमाधवी-काननस्थे गर्भरक्षाम्बिके पाहि भक्तं स्तुवन्तम् ॥ ४॥
ब्रह्मोत्सवे विप्रवीथ्यां वाद्यघोषेण तुष्टां रथे सन्निविष्टाम् ।
सर्वार्थदात्रीं भजेऽहं देववृन्दैरपीड्यां जगन्मातरं त्वाम् ।
श्रीमाधवी-काननस्थे गर्भरक्षाम्बिके पाहि भक्तं स्तुवन्तम् ॥ ५॥
एतत् कृतं स्तोत्ररत्नं दीक्षितानन्तरामेण देव्याः सुतुष्ट्यै ।
नित्यं पठेद्यस्तु भक्त्या पुत्रपौत्रादि-भाग्यं भवेत्तस्य नित्यम् ॥ ६॥
इति ब्रह्मश्री अनन्तरामदीक्षितवर्यविरचितं
गर्भरक्षाम्बिका-स्तोत्रं सम्पूर्णम् ॥
Encoded by PSA Easwaran
Proofread by PSA Easwaran, Rajani Arjun Shankar