गङ्गातरङ्गः
॥ श्रीगणेशाय नमः ॥
श्रीगङ्गे भागीरथि श्रीशङ्करमौलिमालतीमाले ।
करुणावति जय भगवति पाहि कृपापाङ्गतः शिवसदये ॥ १॥
पङ्क्तावुपविष्टानां सर्वेषां तर्पणं समं न्याय्यम् ।
मम तु श्रोत्रं तृप्तं गङ्गे ! रीतिः कथं त्वदीयेयम् ॥ २॥
सर्वेन्द्रियसौहित्यं यथा भविष्यति तथा लघु विधेयम् ।
अद्यावधि यज्जातं जातं गङ्गे ! त्वया दया कार्या ॥ ३॥
दयनीयोऽयं गङ्गे सर्वैधर्मादिभिः परित्यक्तः ।
यामि शरणं कमधुना त्वया विना व्रात्यराजोऽहम् ॥ ४॥
पूर्वं समुद्धृतः कति संप्रत्युद्धर्तुमनलसासि त्वम् ।
अग्रे समुद्धरिष्यसि तन्मध्ये मादृशो नैव ॥ ५॥
पूर्वं न चैव मादृङ् नोचेदानीं पुरः कुतो भविता ।
इति सङ्ख्यातुमनलसा भव भवति जाह्नवि त्रिपथगे त्वम् ॥ ६॥
पापिन उद्धर्तु त्वं बद्धपरिकरा श्रुतं मनीषिभ्यः ।
इत्थं सति मद्विषये गङ्गे केयं प्रमीला त्वम् ॥ ७॥
प्राक्कर्म पचेलिमतामाप्तमिदानीन्तने जनुषि ।
इति विदितमहो गङ्गे प्रोत्का यत्सेवनाय धिषणेयम् ॥ ८॥
तव भवतु नमस्कारो मद्विषये देवि ! भो नमस्तुभ्यम् ।
करुणावति जय गङ्गे पाहि कृपापाङ्गदृष्टिपातैः ॥ ९॥
कतिचिद् ब्रुवन्ति विन्दुं नितम्बमात्रं च जानुदघ्नं च ।
केचिद् गुल्फद्वयसम्भवसिन्धुं देवतान्तराश्रयणात् ॥ १०॥
तव संश्रयाद्धि गङ्गे भवसिन्धोरस्तितां न मन्येऽहम् ।
अथवा मन्ये भ्रमं खेनगरः शशविषाणमंशुजलम् ॥ ११॥
शरदां पञ्चसहस्री तवस्थितेर्मानमिति विदामाज्ञा ।
गङ्गे यदवधि विदिता तदवधि मां पीड्यत्यधीरत्वम् ॥ १२॥
यस्मिन्कस्मिन् हि भवे तिर्यश्चित्वं समुद्धरिष्यसि माम् ।
इति सत्यमथाप्यस्मिँश्चरमभवे पासि चेच्चमत्कारः ॥ १३॥
वीचीपतितं सर्वा नद्यः सन्तारयन्ति किं चित्रम् ।
त्वमवीचीपतितमपि हि गङ्गे सन्तारयस्यहो चित्रम् ॥ १४॥
वंशानुत्पादयसि त्वं वर्द्धयसे तथैव जीवयसि ।
रक्षसि विस्तारयसि स्वस्मिन्पतितं हि तारयसि ॥ १५॥
सद्वंशभवे वंशोद्धारिणि गङ्गे नमस्करोमि त्वाम् ।
वंश्यमपि दीनं द्विजं किं त्वं नाद्यापि तारयसि ॥ १६॥
नो तारयसि हि मां चेन्मा तारय देवि भोः स्वतन्त्रा त्वम् ।
मज्जयसि तर्हि मज्जय गङ्गे स्वस्मिन्सुगण्डशैलमिव ॥ १७॥
मा मास्तु मदुद्धारो नैव त्वामर्थये कदाचिदपि ।
क्षुद्रं यादोजातं विधाय मां स्थापयाशु निजजठरे ॥ १८॥
यद्यपि यादः क्षुद्रं चरति महच्चेत्तथापि मदनुमतिः ।
किं तव गतमत्र परं मज्जय नामाशु मा विधेहि चिरम् ॥ १९॥
भवसिन्धौ मज्जाया विभ्यति ताभ्यः सुविद्वांसः ।
नाहं विभेमि मातर्भवसिन्धौ त्वयि ममास्तु मज्जैवः ॥ २०॥
लक्ष्मीनाथं त्यक्त्वा मत्वा श्लाघ्यं कपर्दिसम्बन्धम् ।
गङ्गे भूमौ विचरस्यतः कपर्द्यस्मि दृग्विषयः ॥ २१॥
गोमूर्त्यश्वत्थादीनितरत्र त्वं कुरुष्व मा माम्भोः ।
कृमिमशकवेतसादीन् प्रविधाय स्थापयाशु निजजठरे ॥ २२॥
सगरानुद्धर्तुमना भूरन्ध्रप्लावनं कृतवती त्वम् ।
सगरोऽस्मि बहुलरन्ध्रः प्लावयसि न मां सुरापगे किमिति ॥ २३॥
सुरसङ्गात्सुरधुनिता प्राप्ता याता तथापि नोक्षरता ।
भूसुरसङ्गादधिकैकाक्षरताप्तिः कथं न सा व्रियते ॥ २४॥
त्वन्मज्जनमेव परं श्लाघ्यं मान्यं श्रुतेर्वचोऽस्माकम् ।
नान्यत्रामरमुक्तावलिनीराजितपदं पदं शाक्रम् ॥ २५॥
अच्युतपदच्युतापि हि दातुं नैनं पदं स्वतन्त्रा त्वम् ।
काऽन्येदृशी द्वितीया स्वपदभ्रष्टा सती तदर्पयितुम् ॥ २६॥
दोषत्रयापनुत्यै त्रिविधा मर्त्यास्त्वयि प्रमज्जन्ति ।
द्विचतुर्दशदोषाढ्यांस्तांस्त्वं कुरुषे कथं त्वेतत् ॥ २७॥
कश्चित्कञ्चिच्छ्रयतेत्याधिक्यं लब्धुमिति जनस्थित्याम् ।
भूतं चतुर्विधं त्वं त्रिविधं कुरुषे कथं गङ्गे ! ॥ २८॥
अम्ब ! त्वद्दर्शनतो मुक्तिर्न स्नानजं फलं जाने ।
इति यद्वदति विपश्चित्तदलीकः स्नानतस्त्रिमूर्तित्वम् ॥ २९॥
त्रिगुणांशं पङ्कमार्ष्टिं कर्तुं मर्त्यास्त्वयि प्रमज्जन्ति ।
तानविशेषेण त्वं करोषि निजलीलया त्रिगुणमूर्तीन् ॥ ३०॥
गङ्गे नश्यति जननं त्वन्मज्जनतो वदन्ति तदलीकम् ।
जन्तुनिवहो निमज्जँस्त्वयि भवति हि शङ्करो विधिर्विष्णुः ॥ ३१॥
स्वर्गादधः पतन्ती स्वोर्ध्वं गङ्गे निमज्जतो नयसि ।
सोढ्वाऽपि विपद्गणमथ सन्तः परकार्यसाधने व्यग्राः ॥ ३२॥
गङ्गाप्रार्थनातरङ्गो गङ्गाचरणे समर्पितः शिशुना ।
सगुणो विगुणो वा स्तां श्राव्यं कलभाषणं हि शिशोः ॥ ३३॥
इति श्रीमदार्याचार्यमयूरपण्डितानुजसूनबालकविरचितो
गङ्गार्थनातरङ्गः शिवाय भूयात् ॥
Encoded and proofread by Shree Devi Kumar shreeshrii at gmail.com