श्रीगङ्गास्तुतिः
श्रीराम उवाच -
अस्याः प्रभावाद्धरयो योऽसौ मम पिता प्रभुः ।
सर्वपापविनिर्मुक्तस्ततो यातस्त्रिविष्टपम् ॥ १॥
इयं जनित्री सकलस्य जन्तोर्भुक्तिप्रदा मुक्तिमथापि दद्यात् ।
पापानि हन्यादपि दारुणानि काऽन्याऽनयाऽस्त्यत्र नदी समाना ॥ २॥
हतानि शश्वद्दुरितानि चैव अस्याः प्रभावादरयः सखायः ।
विभीषणो मैत्रमुपैति नित्यं सीता च लब्धा हनुमांश्च बन्धुः ॥ ३॥
लङ्का च भग्ना सगणं हि रक्षो हतं हि यस्याः परिसेवनेन ।
यां गौतमो देववरं प्रपूज्य शिवं शरण्यं सजटामवाप ॥ ४॥
सेयं जनित्री सकलेप्सितानाममङ्गलानामपि सन्निहन्त्री ।
जगत्पवित्रीकरणैकदक्षा दृष्टाऽद्य साक्षात्सरितां सवित्री ॥ ५॥
कायेन वाचा मनसा सदैनां व्रजामि गङ्गां शरणं शरण्याम् ॥ ६॥
इति श्रीब्राह्मे महापुराणे तीर्थमाहात्म्ये गौतमीमाहात्म्ये
श्रीरामकृता श्रीगङ्गास्तुतिः समाप्ता ॥
BrahmapurAna Chapter 157, verses 9-14
Proofread by PSA Easwaran psaeaswaran at gmail.com