गङ्गास्तुतिः ५
श्रीगणेशाय नमः ।
शैलेन्द्रादवतारिणी निजजले मज्जज्जनोत्तारिणी
पारावारविहारिणी भयभयश्रेणीसमुत्सारिणी ।
शेषाहेरनुकारिणी हरशिरोवल्लीदलाकारिणी
काशीप्रान्तविहारिणी विजयते गङ्गा मनोहारिणी ॥
इति गङ्गास्तुतिः समाप्ता ।
Encoded and proofread by Anil Kumar Pandey anil.kumar17pandey at gmail.com