गङ्गास्तोत्रम् ४
श्रीगणेशाय नमः ।
पर्वतभेदि पवित्रं जैत्रं नरकस्य बहुमतं गहनम् ।
हरिमिव हरिमिव हरिमिव सुरसरिदम्भः पतन्नमत ॥ १॥
इयं चिद्रूपाऽपि प्रकटजडरूपा भगवती
यदीयाम्भोविन्दुर्वितरति च शम्भोरपि पदम् ।
पुनाना धुन्वाना निखिलमपि नानाविधमघं
जगत्कृस्नं पायादनुदिनमपायात्सुरधुनी ॥ २॥
वाते वाऽपि यदङ्गसङ्गमवशाच्छ्रीशम्भुरूपप्रदे
गौरी रुष्यति तुष्यति त्वहिपतिर्विन्ध्याटवी शोचति ।
चन्द्रस्त्रस्यति कुप्यते हरिरपि ब्रह्मा परं शङ्कते
सा गङ्गा निखिलं कलङ्कनिचयं भङ्गं तुरङ्गैनर्येत् ॥ ३॥
मुक्ताभा नृकपालशुक्तिषु जटावल्लीषु मल्लीनिभा
वह्नौ लाजनिभा दृशौ मणिनिभा भोगोत्करे भोगिनाम् ।
नृत्यावर्तविवर्तनेरितपयःसम्मूर्च्छनोच्छालिताः
खेलन्ती हरमुर्धनि पान्तु भवतो गङ्गापयोबिन्दवः ॥ ४॥
एषा धर्मपताकिनी तटसुधासेवावसनाकिनी
शुष्यत्पातकिनी भगीरथतपःसाफल्यहेवाकिनी ।
प्रेमारूढपिनाकिनी गिरिसुतासाकेकरालोकिनी
पापाडम्बरडाकिनी त्रिभुवनानन्दाय मन्दाकिनी ॥ ५॥
इति गङ्गास्तोत्रं सम्पूर्णम् ।
Encoded and proofread by Anil Kumar Pandey anil.kumar17pandey at gmail.com