गङ्गास्तोत्रं ६
श्रीगणेशाय नमः ।
विचलकलविहङ्गे विष्णुपादाम्बुसङ्गे
तटतरुरतभृङ्गे तीरचञ्चत्कुरङ्गे ।
विमलतरतरङ्गे विश्वनाथाञ्चिताङ्गे
सकलकलुषभङ्गे पाहि मां देवि गङ्गे ॥ १॥
जनेर्दूरे धीरे जननि तव तीरे स्थिरतरं
नरं धन्यं मन्ये हिमशिखरिकन्ये सुनिपुणम् ।
असौ वारं वारं जननमृतिभारं परिजहत्
स्वसंसारं सारं भवजलधिपारं हि भजति ॥ २॥
त्वदुत्सङ्गे गङ्गे विहरणविहङ्गे मयि मिलत्
कृपापाङ्गे सङ्गे तव वरतङ्गेण सति मे ।
कुतः पापं तापं जनयतु समीपं परिजहत्
परं द्वीपं दीपं तम इव दुरापं व्रजति हि ॥ ३॥
गङ्गे भृङ्गाङ्गनालीविरचितकलसङ्गीतभङ्गीविलग्न
स्वान्तानन्दानुरूपप्रविततपुलकभ्रान्तिदाल्पाल्पभङ्गे ।
अङ्गीकुर्वद्य मां त्वत्सकरुणरुचिरापाङ्गलावण्यगङ्गा
तुङ्गोर्मिस्नापिताङ्गस्वकपरिजनसङ्घातमध्येऽन्तरङ्गम् ॥ ४॥
अम्ब त्वामनुसन्दधेऽहमनिशं चित्तेन वाचापि ते
स्वर्भूलोकरसातलेषु विततां कीर्तिं स्तुवे पावनि ।
गङ्गे तुङ्गतरङ्गसङ्गिहिमवत्पादे पदाब्जं च ते
साष्टाङ्गं प्रणमामि तारय परं मां देवि दुःखार्णवात् ॥ ५॥
गङ्गे मङ्गलदायिभव्यचरिते रिङ्गत्तरङ्गोज्ज्वले
सांङ्गो मेऽस्तु मनोरथस्त्वयि सदा स्नानेन पानेन च ।
एतावत्तु वृतं मया तव पुनस्तीरे सदा सात्त्विकै
वेदान्तार्थविचारतत्परतरो नेष्ये चिरं वासरान् ॥ ६॥
गङ्गे तावकतीर एव सततं वस्तुं मनो मेऽस्ति चेद
अस्त्वेवं ननु दिव्यमङ्गलगुणे किं तावता साधितम् ।
मातुः स्तन्यमपेक्ष्य भूरिकरुणालापैः परं बालको
रोदिष्यत्यसकृद् ददाति यदि सा सार्थस्तदा तच्छ्रमः ॥ ७॥
अम्बाद्याभिमुखीकृतासि सुचिरं जन्मान्तरेष्वर्जितैः
पुण्यैरन्यसुदुर्लभैस्तव मया प्राप्तं कटाक्षेक्षणम् ।
यत्प्राप्यैव शिवः शिवोऽभवदसौ विष्णुच विष्णुत्ववान्
ब्रह्मा ब्रह्मपदं जगाम महिमा गङ्गे तवात्यद्भुतः ॥ ८॥
इति जह्वसुतां जगद्विभूषामभिनन्द्याथ समस्तदेवतास्ताः ।
जनुषः फलमद्य जातमित्यालपनं चक्रुरतीव हष्टभावाः ॥ ९॥
नदनन्तरमत्य तत्प्रतीरं तुलसीं सन्ददृशुसित्रलोक वन्ध्याम् ।
स्तुतिभिः सह तत्प्रदक्षिणामुचितं प्रभुक्रमणं वितेनिरे ते ॥ १०॥
पठन् गङ्गाष्टकमिदं लक्ष्मणाध्वरिनिर्मितम् ।
आयुरारोग्यपुत्रार्थ विद्यासिद्धिमवाप्नुयात् ॥ ११॥
इति श्रीलक्ष्मणसोमयाजि विरचितं गङ्गास्तोत्रं सम्पूर्णम् ।
Encoded and proofread by Anil Kumar Pandey anil.kumar17pandey at gmail.com