श्रीगङ्गास्तवनम्
अये मातर्गऽङ्गेऽशरणशरणं लोकजननी
विपन्नानां त्रात्री त्रिभुवनविधात्री यदसि तत् ।
त्वया वेदं वेदं विमलसलिले पूर्णकलिलो
जनोऽयं निस्तार्यो वितत-भवतापान्धितमतिः ॥ १॥
तपःपुञ्जै राज्ञो विमलचिदनन्तद्रवसरित्-
स्वरूपेणोद्भूय प्रचरसि जगत्पावनपयाः ।
सहस्राणां षष्ठ्याः सगरतनयानां शुभगति-
प्रदात्री त्वं मातर्जनिजनित-जालं जरयसि ॥ २॥
अहो! भव्यं भव्यं जगति तव कल्याणशरणी
न च ध्यानं दानं श्रुतमथ वितानां विदधतः ।
श्रयन्ते नायासं मुनिगणदुरापां शुभगतिं
न कार्पण्यं गङ्गे कथमपि विधेयं मयि शिवे! ॥ ३॥
अहं द्वारं द्वारं जननि बहुवारं घुटितवान्
त्रपां त्यज्यं त्याज्यं पुनरपि च नैराश्यमसृपम् ।
महापापक्षोणीधर-विततपक्षच्छिदशने
दयापात्रं श्रान्तं कथमपि न मां देवि रहय ॥ ४॥
बृहद्व्यलीकाचलपक्षशम्बं
विचूर्णिताशेषविपत्कदम्बम् ।
समुच्छलल्लोलतरङ्गभङ्गं
तनोतु शं तेऽम्बु ममावलम्बम् ॥ ५॥
इति आचार्य श्रीविष्णुप्रसादपाण्डेयविरचितं श्रीगङ्गास्तवनं सम्पूर्णम् ।
Encoded and proofread by Musiri Janakiraman