गङ्गास्तवः ३
श्रीगणेशाय नमः ।
शार्दूलविक्रीडितं छन्दः
यत्त्यक्तं जननीगणैर्यदपि न स्पृष्टं सुहद्वान्धवै
यस्मिन् पान्थदृगन्तसन्निपतिते तैः स्मर्यते श्रीहरिः ।
स्वाङ्के न्यस्ततदीदृशं वपुरहो स्वीकुर्वती पौरुषं
त्वं तावत् करुणापरायणपरा माताऽसि भागीरथि ? ॥ १॥
आर्याछन्द
अच्युतचरणतरङ्गिणि शशिशेखरमौलिमालतीमाले ।
त्वयि तनुवितरणसमये देया हरता न मे हरिता ॥ २॥
मन्दाक्रान्ता
शून्यीभूता शमननगरी नीरवा रौरवाद्या
यातायातैः प्रतिदिनमहो भिद्यमाना विमानाः ।
सिद्धैः सार्द्ध दिवि दिविषदः सार्घ्यपात्रैकहस्ता
मातर्गङ्गे! यदवधि तव प्रादुरासीत् प्रवाहः ॥ ३॥
उपजातिः
पयो हि गाङ्गं त्यजतामिहाङ्ग पुनर्न चाङ्गं यदि यान्ति चाङ्गम् ।
करे ग्थाङ्ग शयने भुजङ्ग याने विहङ्ग चरणे च गाङ्गम् ॥ ४॥
शार्दूलविक्रीडितं
कल्मक्षौणिकरोटयः कति कति द्वीपिद्विपानां त्वचः
काकोलाः कति पन्नगाः कति सधाधाम्नश्च खण्डाः कति ।
किञ्च त्वञ्च कति त्रिलोकजननि ! त्वद्वारिपूरोदरे
मज्जज्जन्तुकदम्बकं समुदयत्येकैकपादाय यत् ॥ ५॥
शिखरिणी
कुतोऽवीचिर्वीचिस्तव यदि गता लोचनपथं
त्वमापीता पीताम्बरपुरनिवासं वितरसि ।
त्वदुत्सङ्गे गङ्गे ! यदि पतति कायस्तनुभृतां
तदा मातः ! शातक्रतवपदलाभोऽप्यतिलघुः ॥ ६॥
त्वमम्भो लोकानामखिलदुरितान्येव दहसि
प्रगन्त्री निम्नानामपि नयसि सर्वोपरि नतान् ।
स्वयं जाता विष्णोर्जनयसि मुरारातिनिवहान्
अहो मातर्गङ्गे ! किमिह चरितं ते विजयते ॥ ७॥
मालिनीछन्दः
सुरधुनि ! मुनिकन्ये ! तारयेः पुण्यवन्तं
स तरति निजपुण्यैस्तत्र किन्ते महत्त्वम् ।
यदि च गतिविहीनं तारयेः पापिनं मां
तदिह तव महत्त्वं तन्महत्त्वं महत्त्वम् ॥ ८॥
(रचनाकाल ः १६१९ ई० रङ्गून स्वसमुद्र, पृ० १७६
रचनास्थलं- दक्षिणेवरभागोरचितटः ।)
इति दराफखांविरचितः गङ्गास्तवः सम्पूर्णः ।
Encoded and proofread by Anil Kumar Pandey anil.kumar17pandey at gmail.com