गङ्गापुष्पाञ्जलिः
श्रीगणेशाय नमः ।
स्वयं शुक्ला शुक्लाभरणवसना जह्नुतनये
द्युतिं वाचां देवी तव न कलयाप्तुं प्रभुरभूत् ।
अतो रूपं लब्धुं सुकविवदनाम्भोजजनितै
विर्धत्ते वाग्गुम्फैर्जननि ! पदपुष्पाञ्जलिमसौ ॥ १॥
कदाचित्केनापि क्वचिदपि समानीत्तममलं
पिबन्तः पानीयं तव जननि ! मीनासनगते ! ।
वहन्तस्त्वां गङ्गे! शिरसि किल हालाहलभुजो
लभन्ते ते लोके शमनदमनान्नात्र शमनम् ॥ २॥
सदावृत्तास्तुङ्गान् भुवि वियति धारागतिधरान्
तरङ्गान् गङ्गायाः सुतरलतुरङ्गाकृतिधरान् ।
विचित्रा वीक्ष्यैते विषयगतयो वृत्तिनिवहा
स्त्रपाधीना पीना अपि जहति दीनाश्चपलताम् ॥ ३॥
कृपासिन्धुः सिन्धुं किमुत भवतीमत्र भवती
प्रपां पीयूषस्य प्रतिदिनमुमेशो वितनुते ।
अथो रूपं कृत्वा जगति जनतातारणपटुः
स्वयं मायोत्तीर्णा सुरनदि ! सुधाधामशिरसः ॥ ४॥
पुरा धृत्वा पात्रे त्रिभुवन-विधाता विधिरभू
दिति ज्ञात्वा पाथः शिरसि पशुनाथस्तव दधौ ।
᳚दे जाने ज्ञानात्सुरनदि ! पुराणस्तु पुरुषः
शरत्पाथोनष्टा सुमतिरिति तथ्यं जनवचः ॥ ५॥
अरित्रं नो यस्यां नहि गुणधरो नाविकगणः
परं पारं नारं नयति न पुनर्याति ननु या ।
असारे संसारे जलधिवदपारे निपतितान्
जनानुद्धर्तुं सा तरिरियमपूर्वा विजयते ॥ ६॥
विशेषाच्छेषस्ते गुणगणमशेषं निगदितुं
प्रभुर्वक्तुं दोषान् सदसि बहुरोषान्मुहुरहम् ।
ब्रुवे मज्जज्जन्तोर्जननि ! जयति व्यालपटली
विशाली कण्ठे च स्थितिरपि सदा भूतभुवने ॥ ७॥
समायाता कस्मात्क्क च जगति यातीयमधुना
कथङ्कारं पारं तव जननि ! जानन्ति विबुधाः ।
न तेषां हानिः स्यात्सुरनदि ! तवापारविदुषां
जना मूढाः किं ये भुवि शशविषाणं न हि विदुः ॥ ८॥
त्वदन्ये मन्येऽहं दधति विबुधाः सिद्धिनिचयं
प्रसन्ना भक्तेभ्यो निजजपरतेभ्योऽपि निखिलाः ।
पिबन्तं पानीयं तपनकरतप्तं तनुभृतं
विधत्से सिद्धीशं सुरनदि ! गिरीशं च कृपया ॥ ९॥
पूर्णेन्दोर्दत्तभङ्गाःसुरपुरललनोद्वर्त्तनैश्चापि पिङ्गाः
शम्भुं गन्तुं तुरङ्गा हरिपदगमने वैनतेयो विहङ्गाः ।
वित्ताशादत्तचित्तानुदरभृतिपरान्तीरगान्भुक्तभोगान्
भुक्तेशानप्रसङ्गाज्जगति कलियुगात्पान्तु गङ्गातरङ्गाः ॥ १०॥
इति श्रीमद्गुरुणा विरचितः गङ्गापुष्पाञ्जलिः सम्पूर्णः ।
Encoded and proofread by Anil Kumar Pandey anil.kumar17pandey at gmail.com