गङ्गाप्रबन्धः
श्रीगणेशाय नमः ।
मधुमथनमूर्तिवर इन्दुकरकामुखं वहसि बहु वारि सुतरङ्गे ।
हरिचरणनखभिदुरजगदण्डनिर्गता ब्रह्मजलपात्रकृतसङ्गे ॥ १॥
नमो देवि गङ्गे नमो देवि गङ्गे हरनिखिलमघमलकनन्दे ॥ ध्रुवम् ॥
त्वमसि जनपावनी चतुरुदधिगामिनी सप्तर्षिकुलसुकृतसारे ।
कनकगिरिलङ्गिते सकलमुनिवन्दिते हरमुकुटसितकुसुममाले ॥ २॥
सगरसुतसङ्गमे लसदमरसुन्दरीदूतिके दुष्कृतिदुरापे ।
निरयगतिबाधके निर्वाणसाधके भक्तजनहृतसन्तापे । नमो०॥ ३॥
तीर्थवरकारिणी पूर्वजोद्धारिणी हिमशैलपाषाणभेदे ।
नागरं प्लावयसि पूरयसि सागरं सङ्गता विन्ध्यगिरिपादे ॥ नमो०॥ ४॥
शुभसलिलनिधौतपुलिनवति कुर्वतस्तव नामनिर्मलालापम् ।
वन्दिता वीक्षिता चिन्तितावगाहिता मज्जिता मम हरसि पापम् ॥ नमो०॥ ५॥
इह निखिलमुनिगणैरिह निखिलसुरगणैरिह निखिलवेदैरुदारे ।
पीयसे जीयसे स्तूयसे जन्हुमुनिकन्यके संसारसारे ॥ नमो०॥ ६॥
गण्डूषमिह मेऽघशतमधिजयतु तव करनिकरगम्भीरतोये ।
परलोकबन्धुरसि सुन्दरसिन्धुरसि तटिनि सुरसदनसाधनोपाये ॥ नमो०॥ ७॥
इति रामलक्ष्मणकौशिकानुज्ञया सुरसरित् कृतनमस्कारं
भणन्तमिह सादरं धीरजयदेवकविमुत्तारयसि भवजलधिपारम् ॥ नमो०॥ ८॥
इति धीरजयदेवकृतः गङ्गाप्रबन्धः सम्पूर्णः ।
Encoded and proofread by Anil Kumar Pandey anil.kumar17pandey at gmail.com