गङ्गाद्विपदी
जय जय त्वं सदानन्ददे जह्नुजे
शशिशेखरशिरसि सितकुसुममाले ।
भक्तजनहृदयालवालगत-
हरिचरणसुरतरुप्रसवभूते रसाले ॥ १॥
शिखरितनयानयनरोलम्बचुम्बिते
दूरीकृतदुरितदौर्गन्ध्यजाले ।
जीवनं भक्तजनजीवनं तव
यतस्त्रिविधतापापहं मुक्तिशाले ॥ २॥
इति श्रीगोकुलोत्सवात्मजगोस्वामिश्रीजीवनजीमहाराजकृता
गङ्गाद्विपदी सम्पूर्णा ।
Proofread by PSA Easwaran