गङ्गाष्टपदी
॥ श्रीगङ्गायै नमः ॥
॥ रामगंरारागे यत्तिताले ॥
मधुमथनमूर्तिवरमिन्दुकरकार्मुकं
वहसि वहद्वारि सुप्तरङ्गे तरङ्गे ।
हरिचरणनखत्रिपुरगजदृतनिर्गता
ब्रह्मजलपात्रकृतसङ्गे ।
नमो देवि गङ्गे नमोमातर्गङ्गे ।
हर निखिलमघमलकनन्दने ॥ ध्रुवपदं०॥ १॥
त्वमसि जनपावनी चतुरुदधिगामिनी सप्तरुचिकेलिसुकीर्तिसारे
कनकगिरिलम्बिता सकलमुनिवन्दिता हर मुकुटशिरा कुसुममाले ।
नमो देवि गङ्गे नमो मातर्गङ्गे ॥ २॥
तीर्थवरकारिणी स्वर्गजोद्धारिणी हेमशैल
पाषाणभेदेन तारयसि नागरं पूरयसि सागरम् ।
सङ्गतविन्ध्यगिरिग्राहे ।
नमो देवि गङ्गे नमो मातर्गङ्गे ॥ ३॥
इह निखिल सुरगणैरिह निखिल मुनिगणैरिह निखिलवेदैरुदारे ।
स्तूयसे गीयसे गायसे जाह्नवि सुकीर्तितेति संसारसारे ।
नमो देवि गङ्गे नमोमातर्गङ्गे ॥ ४॥
शुभसलिलविधृतपुलिनमुपकुर्वती तव नाम निर्मलालापम् ।
सेविता चिन्तिता यास्तावगाहिता मज्जिता मम हरसि पापम् ।
नमो देवि गङ्गे नमो मातर्गङ्गे ॥ ५॥
सगरसुतसङ्गमे लसितवरसुन्दरीदूतिके दुष्कृतिदुरापे ।
निरयगतिबाधिके निर्वाणपदसाधिके ।
भक्तजनदलितसन्तापे नमो देवि गङ्गे ॥ ६॥
गण्डूषजलसत्तरङ्गकरनिकरमकरगम्भीरतोये
तटिनि सुधारसि परपाङ्खरसि सघनसाधनोपाये ।
नमो देवि गङ्गे ॥ ७॥
इति रामलक्ष्मणै कौशिकानुज्ञया सुरसरित्कृतनमस्कारे ।
वहति सुकृतमुदारं धीरजयदेवविरचितं कवतारयसि नव जलधिपारे ।
नमो देवि गङ्गे नमो मातङ्गगे ॥ ८॥
॥ इति जयदेवविरचितगीतगोविन्दे कविश्रीजयदेवकृतौ
गङ्गाष्टपदी सम्पूर्णा ॥
Encoded and proofread by Shree Devi Kumar shreeshrii at gmail.com