गायत्री वन्दना
ॐकाररूपा त्रिपदा त्रयी च त्रिदेववन्द्या त्रिदिवाधिदेवी ।
त्रिलोककर्त्री त्रितयस्य भर्त्री त्रैकालिकी सङ्कलनाविधात्री ॥ १॥
त्रैगुण्यभेदात् त्रिविधस्वरूपा त्रैविध्ययुक्तस्य फलस्य दात्री ।
तथापवर्गस्य विधायिनी त्वं दयार्द्रदृक्कोणविलोकनेन ॥ २॥
त्वं वाङ्मयी विश्ववदान्यमूर्तिर्विश्वस्वरूपापि हि विश्वगर्भा ।
तत्त्वात्मिका तत्त्वपरात्परा च दृक्तारिका तारकशङ्करस्य ॥ ३॥
भूतं च भव्यं सकलं यदेतत् त्वत्तः परं कुत्र न किञ्चिदस्ति ।
आद्यामनाद्यामनवद्यवन्द्यां पध्यन्ति विज्ञाः प्रवदन्ति च त्वाम् ॥ ४॥
विश्वात्मिके विश्वविलासभूते विश्वाश्रये विश्वविकाशधामे ।
विभूत्यधिष्ठात्रि विभूतिदात्रि पदे त्वदीये प्रणतिर्मदीया ॥ ५॥
त्वं नित्यसर्गस्य विसर्गभूता दैनन्दिनस्यापि च प्राकृतस्य ।
विश्वस्य योनिर्हि मता तथापि समुद्रहैमाद्रिविरञ्चिजाता ॥ ६॥
भोगस्य भोक्त्री करणस्य कर्त्री धात्वाव्ययप्रत्ययलिङ्गशून्या ।
ज्ञेया न वेदैर्न पुराणभेदैर्ध्येया धिया धारणयादिशक्तिः ॥ ७॥
किञ्चिद्यदेतत्तवमूर्तिरेषा तथाप्यदृश्याखिलसाधनैश्च ।
सान्ता निरन्ता सदसत्स्वरूपा स्फुटास्फुटा स्फोटविकाशरूपा ॥ ८॥
यस्मिन् यतो यस्य च येन यच्च कस्मिन्कुतः कस्य च केन किञ्च ।
इत्यादिशब्दैर्न विशोधनीया कुतः कथं सा परिबोधनीया ॥ ९॥
नित्या सदा सर्वगताऽप्यलक्ष्या विष्णोर्विधेः शङ्करतोऽप्यभिन्ना ।
शक्तिस्वरूपा जगतोऽस्य शक्तिर्ज्ञातुं न शक्या करणादिभिस्त्वम् ॥ १०॥
त्यक्तस्त्वयात्यन्तनिरस्तबुद्धिर्नरो भवेद् वैभवभाग्यहीनः ।
हिमालयादप्यधिकोत्रतोऽपि जनैस्समस्तैरपि लङ्घनीयः ॥ ११॥
शिवे हरौ ब्रह्मणि भानुचन्द्रयोश्चराचरे गोचरकेऽप्यगोचरे ।
सूक्ष्मातिसूक्ष्मे महतो महत्तमे कला त्वदीया विमला विराजते ॥ १२॥
सुधामरन्दं तव पादपद्मं स्वे मानसे धारणया निधाय ।
बुद्धिर्मिलिन्दीभवतान्मदीया नातः परं देवि वरं समीहे ॥ १३॥
दीनेषु हीनेषु गतादरेषु स्वाभाविकी ते करुणा प्रसिद्धा ।
अतः शरण्ये शरणं प्रपन्नं गृहाण मातः प्रणयाञ्जलिं मे ॥ १४॥
पठतः शृण्वतो वापि सकृत्प्रणमतस्तथा ।
भव्याय जगतो भूयात् प्रणयस्यामञ्जलिः ॥ १५॥
॥ इति गायत्रीवन्दना समाप्ता ॥
रचना - पं ध्यामनाथजी शुक्ल, ``द्विजश्याम''
Encoded and proofread by Ramgopal Bhimavarapu bhimavarapu2014 at gmail.com